SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा १०विश्रामे ॥२५६॥ जाननाGONDHONGKOL अथ दशमो बीजामतनिराकरणो दशमो विश्राम: | अथ क्रमप्राप्तं बीजामतमाह अह बीजामयकुमयं वुच्छं संखेवओ जहा जायं। विक्कमकाला सत्तरिअहिए पन्नरससयवरिसे ॥१॥ अथेति अष्टमकटुकमतनिरूपणानन्तरं क्रमप्राप्तं बीजामतरूपं यत् कुमतं तत् संक्षेपतः-संक्षेपेण वक्ष्ये, कथं यथाजातं येन प्रकारेण जातं तदनतिक्रमणेत्यर्थः, विक्रमकालात् सप्तत्यधिकपंचदशशतसंवत्सरे१५७०वर्षे जातमिति गाथार्थः॥१॥अथोत्पत्तिस्वरूपमाहलुंपकमयवेसहरो भूनउ नामेण आसि तस्सीसो। बीजक्खो मुक्खयरो तेणवि अंगीकया पडिमा ॥२॥ लुम्पकमतवेषधरः भूनउ इति नाम्ना आसीत् , तस्य शिष्यो बीजाख्यो-बीजा इति नाम यस्य, स कीदृशो?-मूर्खतर:-अतिशयेन मुर्खः, शास्त्राध्ययनमधिकृत्य सर्वथा तद्रहित इत्यर्थः, तेनापि एवं विधेनापि प्रतिमा-नाममात्रेण जिनप्रतिमा अङ्गीकृतेति गाथार्थः ॥२॥ तदनु किं कृतवानित्याह सोऽवि गओ मेवाते मेवाडे जत्थ साहुअविहारो। लोयाणमसुहकम्मोदएण कडं तवं कुणइ ॥३॥ सोऽपि-बीजाख्योऽपि मेवातदेशे तथा मेदपाटदेशे च यत्र साधूनामविहारो-यत्र साधूनां विहारो नास्ति तत्र गतो लोकानामुपलक्षणादात्मनोऽपि अशुभकर्मोदयेन कष्ट-कष्टदायि तपः करोति, ननु लोकानामशुभकर्मोदयः कथमिति चेत् उच्यते, यदि लुम्पकमत एवास्थास्यत् तर्हि जनानामास्था नाभविष्यत् , किंतु लुम्पकमतमपास्य जिनप्रतिमा स्वीकृता तेन लोकः परमार्थानमिज्ञो MOROUजकाजाIOUGHOUGHORG ॥२५६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy