________________
भीप्रवचन
परीक्षा ९ विश्रामे ॥२३९॥
साधुसत्तासिद्धि
HOMGHOGHONGKONGREDIO
अथ कटुकमते दृश्यमाना लिङ्गिनः सर्वेऽपि पार्थस्थादयो मिथ्यादृष्टय एव, यतः-सावज्जजोगपरिवजणाइ सव्वुत्तमो जईधम्मो। बीओ सावगधम्मो तइओ संविग्गपक्खपहो ॥१।। सेसा मिच्छद्दिही गिहिलिंगकुलिंगदव्बलिंगेहिं । जह तिनि उ मुक्खपहा संसारपहा तहा तिन्नि ।।२।। (५१९-२० उप.) इति प्रवचनवचनम , एवं च सति यद् दूषणं भवति तदाह
केवलमिच्छादिट्ठी समवाउ जिणिंदबुद्धिसंजुत्तो। जिणपडिमाणं पूअणपमुहं न करेइ निअमेणं ॥२०॥
केवलमिथ्यादृष्टिः समवायो-जनसमूहः, समवाउ इति प्राकृतत्वादुत्वमपि, तेन न छन्दोभङ्गः, जिनेन्द्रबुद्धिसंयुक्तो-जिनप्रतिमानां पूजनप्रमुखं-सप्तदशादिभेदैः पूजनं शक्रस्तवादिना स्तवनं चेत्यादि नियमेन-निश्चयेन न करोति,न विदधात्येवेत्यर्थः,दृश्यते |च कुर्वाणोऽतो न मिथ्यादृष्टिः, किंतु सम्यग्दृष्टिरेव, स च साधुषु साधुबुद्धिमानेव स्याद्, एवं च साधवोऽवश्यं भावनीया इतिगाथार्थः॥२०॥ अथ केवलमिथ्यादृष्टिसमवायस्य श्रावककुलत्वमपि न स्यादिति दर्शयति
सावयकुलंपि एवं विण्णेअंजं च बाहिराणपि । उस्सुत्तभासगाणं भणणं तं तित्थअणुकरणं ॥२१॥ ___एवं-प्रागुक्तयुक्त्या श्रावककुलमपि विज्ञेयं, यच्च बाह्यानां-तीर्थाद्वहिर्भूतानामुत्सूत्रभाषकाणां भणनमर्थाच्छ्रावककुलमिति तच्च मूर्खजनानां पुरस्तात्तीर्थानुकरणमितिगाथार्थः ॥२१॥ अथ तीर्थानुकरणे दृष्टान्तमाहजह बालिआ य मिलिआ करिति परिणयणकिच्चअणुकरणं । ढिगिल्लिआइविसयं एवं तित्थाउ बाहिरिआ॥२१॥
यथा बालिका:-अव्यक्तकुमार्यो मिलिता-एकसमुदायीभूताश्च ढिगिल्लिकाविषयं परिणयनकृत्यानुकरणं, यथा लोके दृष्टं वधूवरयोः सद्भूतयोः परिणयनकृत्यं गीतादिना तथैव दिगिलिकां पुरस्कृत्य कुर्वन्ति, परं यदि तत्कृत्यं दृष्टं न भवेत्तर्हि तदनुकतुन
मानाजान OMGHOI
IIRUSIF