________________
श्रीप्रवचन- परीक्षा ९ विश्रामे ॥२३८॥
साधुसचासिद्धिः
KOLOGO
'जेणमणु'त्ति येन कारणेनानुवादानं योगानुष्ठाने उद्देशसमुद्देशानन्तरमनुज्ञाननन्दीकरणे अनुना तावत् 'इमस्स साहुस्स क्यणेहिन्ति इमं पुण पट्ठवणं पडुच्च इमस्स साहुस्स इमाए साहुणीए वा अमुगस्स अंगस्स सुअक्खंधस्स वा अणुण्णानंदी पवत्तइ"त्ति इत्येवंरूपेण साधुसाध्च्योरेवाध्ययनाध्यापनविधिरुक्तः, तेषामेव सूत्रादिदाने ग्रहणे वा अनुन्ना, यद्यपि श्रीआवश्यकश्रुतस्कन्धाध्ययनस्य सामायिकादिसूत्रस्य श्रावकवर्गस्याप्यनुज्ञा तथापि सा न साधोरिव, यतस्तेषां "अणुण्णायं २ खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं सम्मं धारिजाहि गुरुगुणेहि वद्भिजाहि"त्ति, साधूनां च 'अणुण्णायं २ यावत सम्मं धारिजाहि अण्णेसिं च पविजाहित्ति साधूनामेव दानानुज्ञा, न पुनः श्रावकाणामिति श्रावकेभ्यः परम्परागमो न भवति, किंतु साधुभ्य एवेति साध्वभावे तदायत्तस्य परम्परागमस्याप्यभाव इति गाथायुग्मार्थः ॥१७-१८॥ अथ योगादिविधानेन सूत्राध्ययनं पार्श्वस्थादीनामपि दृश्यते, तत्र गतिमाहजं पुण कत्थवि लिंगी जोगविहाणेण भणइ सुत्ताई। तं साहणऽणुकरणं जह निण्हागस्स पडिकमणं ॥१८॥
यत्पुनः कुत्रचित् , न पुनः सर्वत्रापि, लिङ्गी-पार्श्वस्थादिर्योगविधानेन सूत्राणि भणति तत्साध्वनुकरणं, तच्च साध्वभावे न | स्यादेव, यथा निहवस्य प्रतिक्रमणं साध्वनुकरणं, निह्नवस्य प्रतिक्रमणासंभवात् , प्रतिक्रमणं तावत्पापनिवर्त्तनं, तच्च निहवस्य लेशतोऽपि न संभवति, किंतु प्रतिक्रमणं कुर्वन्नेव च प्रतिसमयमनन्तसंसारभार भवेद् , एतच्च प्राग् प्रदर्शितमिति गाथार्थः॥१८॥ अथा-| नुकरणमेव समर्थयितुं गाथामाह
साहुजणस्साभावे न दवलिंगी न निण्हवो होइ । अणुहरणिज्जाभावे अणुहरणं कस्स को कुज्जा ?॥१९॥ साधुजनस्याभावे न द्रव्यलिङ्गी नवा निह्नवो भवेद् , अनुहरणीयाभावे अनुहारम्-अनुकारं कस्य कः कुर्यादितिगाथार्थः॥१९॥
DRAOROMORROHOROGHODHONG
GHONGKONG
||२३८॥