________________
M
श्रीप्रवचन
सिदिः
परीक्षा ९ विश्रामे ॥२३७॥
IGROUGHOUGHOUGHOGHORORDI
संपद्यते, परमेतद्गणनं मुग्धजनभ्रामकं, यत एवं गणने मनुष्यक्षेत्रान्तर्वर्ण्यनन्तपदार्थसार्थसंबद्धः समयमात्रोऽपि कालोऽनन्तकालतां
साधुसचाभजते, एवं कटुकगणनकल्पनापि, न तावता संप्रति युगप्रधानोऽवश्यं भवत्येवेति सिद्ध्यतीति गाथार्थः॥१५॥ अथ गूर्जरत्रावन्यादौ साध्वभावेऽतिप्रसंगद्वारा दूषयितुमाहगूजरपमुहे समणा न हुति जइ आगमोऽवि नो हुन्जा ।सावयकुलजिणपडिमाठिईवि कह संभवइ भरहे ॥१६॥
गूर्जरप्रमुखे यदि श्रमणा-निर्ग्रन्था न भवन्ति, आगमोऽपि तर्हि न भवेत्तथा श्रावककुलजिनप्रतिमास्थितिरपि भरतक्षेत्रे कथं संभवति ?, श्रमणाभावे श्रावककुलस्य जिनप्रतिमानां च स्थितिरेव न स्यात् , ननु पार्श्वस्थादिभ्यः श्रावककुलजिनप्रतिमादीनां स्थितिर्भविष्यतीति चेदहो वैदग्ध्यं, साध्वभावे पार्श्वस्थादय एव कुत इति प्रागेव भणितं किं न स्मरसि!, नहि मौलाभावेऽमुष्मात् | अयं बाह्य इति वक्तुं शक्यते, 'बाह्यत्वं हि सापेक्ष मिति वचनादिति गाथार्थः ।।१६।। अथागमाद्यभावे गाथायुग्मेन हेतुमाहजम्हा संपय तइओ परंपराआगमो जिणिंदुत्तो। सा दाणादाणेहिं तेऽविअ सुअजोगवाहीणं ॥१७॥ जोगा संजमकिरिआ संजमरहिआण नेव संभवइ । जेणमणुण्णादाणं इमस्स साहुस्स वयणेहिं॥१७॥ युग्म।।
यसात्संप्रति गणधरशिष्यात् श्रीप्रभवस्वामिन आरभ्य दुष्प्रसभाचार्य यावत्तृतीयः परंपरागमनामा आगमो जिनेन्द्रोक्तः, स परम्परया 'दानादानाभ्यां' श्रीप्रभवस्वामिना शय्यंभवाय दत्तः तेनादत्तो वा वा श्रीशय्यंभवस्वामिना च श्रीयशोभद्रस्वामिने दत्तस्तेन वाऽऽदत्त इत्येवंरूपेण गुरुशिष्यक्रमः परम्परा तया आगमः परम्परागमः, 'ते अपि' दानादाने अपि च पुनः 'श्रुतयोगवाहिनाविहितयोगानुष्ठानानां भवतः, योगा:-श्रुताराधनतपोविशेषाः संयमक्रियायाः, संयमरहितानां नैव संभवति, तत्रापि हेतुमाह- Mail॥२३७॥
DHOOMHONGKOHOUGHOUGHOG