SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन साघुसचासिद्धिः परीक्षा ९ विश्रामे ॥२३६॥ DRONOROGHOUGHOGHOSHONOOR उत्सूत्रभाषिणस्तीर्थमुपेक्ष्यैव प्रवत्तमानास्तीर्थाद् द्रवर्तिनो नियमादनन्तसंसारिणो महापापात्मान इति विशेषः,तस्माद्यावति क्षेत्रे यसिंश्च काले पार्श्वस्थोत्सूत्रिणो भवन्ति तावत्क्षेत्रमध्ये तस्मिंश्च काले साधवोऽवश्यं भवन्त्येव, यावति क्षेत्रे यसिंश्च काले साधवस्तावत्क्षेत्रमध्ये तसिंश्च काले पार्श्वस्थादयो भवन्त्येवेति न नियमः, यतस्तीर्थोत्पत्तेरारभ्य न तीर्थपर्यन्तं तदुद्भवः, किंतु जमाल्यादयः तीर्थो| पत्तेरनूत्पन्नास्तीर्थे सत्येव विलयं गताः, एवं सांप्रतीना अप्यापाशपर्यन्ता दशापि प्रायो दत्तराज्ञः कालादर्वागेव विलयं यास्यन्ति, | तीर्थ तु दुष्प्रसभाचार्यपर्यन्तं, नहि रोगोऽपि शरीराभावे तिष्ठति, तिष्ठत्येव रोगाभावेऽपि शरीरं निराबाधमिति सर्वजनप्रतीतमिति| गाथार्थः ॥१३॥ अथ दुष्षमासंघस्तोत्रमादाय यदुक्तवान् तद् दूषयितुमाह जं भणि संघथए इच्चाई तंपि मोहविण्णाणं । सुगुरुवएसाभावे कडुओ अण्णाणआवरिओ॥१४॥ यद्भणितं 'संघस्तवे' इत्यादि तन्मोहविज्ञान-मिथ्यात्वमोहनीमाहात्म्यं, यत इति गम्य, यतः सुगुरूपदेशाभावे धर्मार्थि| कोऽपि कटुको ह्यज्ञानावृतः अयं चोन्मार्गगामी तन्नाश्चर्य, यतः-"एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् ।। एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः॥१॥" इतिगाथार्थः ।।१४।। अथोद्धान्तिखरूपमाह जुगपवराणं मज्झे जुगवं जाया य केवि जुगपवरा । तव्वरिसाणि अगणणापंतीइ ठविज मूढमई ॥१५॥ युगप्रवराणां मध्ये केऽपि युगप्रवरा युगपद्-एकस्मिन् काले जाताः तद्वर्षाणि-तदीययुगप्रधानपदवीसंवत्सरान् गणनापतौ स्था|पयति मूढमतिः कटुकः, अयं भावः-एकमिन् काले धेको द्वौ वाऽनेके वा युगप्रवराः संभवन्ति, तेषां च यानि वर्षाणि तानि गणनापतौ पृथक् २ संस्थाप्य संख्यासंकलनं करोति,एवं च क्रियमाणे काकतालीयन्यायेन किश्चिन्न्यूनोऽप्युदयद्वयकालानुयायी काल:
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy