________________
श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३५॥
HONGKONGHOKIGHORORONGHONGKON
||३|| एरंडमज्झयारे एरंडे नाम होइ दुमराया । इअ मंगुलआयरिए मंगलसीसे मुणेअव्वे ॥४॥ (३४९, २१-२४) इतिश्रीस्थानाङ्गे चतुर्थस्थानके उ०४, एतट्टीकादेशो यथा तथा सालस्तथैव साल एव परिवार : - परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिमिरुत्तमत्वात् सालपरिवारः सालकल्पमहानुभावपरिकरत्वाद्, एवमेरण्डोऽपि श्रुतादिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्त चतुर्भङ्गभावनार्थं सालद्रुमेत्यादिगाथाचतुष्कं व्यक्तं, नवरं मंगुलम् - असुंदरम् | २१|| अत्र सालवृक्षैरण्डपरिवारलक्षणद्वितीयभङ्गवर्त्तिनः श्री आणन्दविमलसूरिप्रभृतयो ज्ञेयाः, ननु यदुक्तं संविग्नाचार्यविरहितं तीर्थं न |भवेदिति तदयुक्तं यत एरण्डवृक्ष सालपरिवार कल्पोऽपि तृतीयभङ्गवर्त्ती सूरिरुक्त इति चेन्मैवं, तादृशाचार्यस्य तीर्थाधिपतित्वासंभवात्, यद्यपि तथाविधः कोऽपि सूरिर्भवेत्तथाप्यङ्गारमर्द्दकाचार्यवत् सामान्यसाधुवत्तीर्थाधिपतिसूरिनिश्रावान् स्यात्, तथा च न किंचिदनुपपन्नं, न चैवं श्रीहेम विमलसूरिप्रभृतयोऽपि भविष्यतीति शङ्कनीयं, तदानीमन्यस्य तथाविधाचार्यस्यासंभवात् कथमन्यथा दानर्षिश्रीपतिगणपतिलटकणर्षि तयो लुम्पकमतमपास्य श्रीहेमविमलसूरिपार्श्वे चारित्रं गृहीतवन्तः इति, तस्मात्तदानीं श्रीहेमविमलसूरिरेव तीर्थाधिपतिः परं द्वितीयभङ्गवर्ती, श्री आणन्दविमलसूरिरपि तथाविधसमुदायपरिहारानन्तरं प्रथमभङ्गवर्त्तीति बोध्यं, कृमि षट्पद्यादयस्तु शरीरान्तर्वर्त्तिरुधिरमांसादिभक्षणेन शरीरापकर्षका महापीडाकारिणो दुष्प्रतिकाराश्च तथाऽमी उत्सूत्र भाषिणोऽपि तीर्थस्य शतापादकाः, अतः कृमिषट्पद्यादिकल्पा उत्सूत्र भाषिणः, तेऽपि तीर्थे सत्येव संभवन्ति, ननु पार्श्वस्योत्सूत्र भाषिणोः को मेदः १, उभयोरपि तीर्थबाह्यत्वाविशेषादिति चेद् उच्यते, “सारणचइआ जे गच्छनिग्गया पविहरंति पासत्था । जिणवयणवाहिरावि अते उ पमाणं न कायच्चा || १ ||" इत्यागमवचनात् पार्श्व स्थादयोऽपि यद्यपि प्रवचनबाह्यास्तथापि प्रवचनभयं मन्यमानास्तीर्थप्रत्यासमाः,
MOHSINGH ONGHONGHORI
साधुसत्तासिद्धिः
॥२२५॥