SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३३॥ GKO: र्गगतस्य कस्यापि साधवः साक्षादृक्पथमवतीर्णा न भवन्ति तजातिकः - तज्जातीयः तद्वर्गसंबन्धी श्राद्धः, अपिरध्याहार्यः, श्राद्धोऽपि श्रावकोऽपि न भवेत्, नहि यज्जातीयेन साधवो न दृष्टा स तजातीयः श्रावकः संभवेत्, एवं पाश्वस्थप्रमुखा अपि बोध्याः, तीर्थे | वर्त्तमाने श्रावक इति व्यपदेशव्यवहारविषयः स एव स्याद्यजातीयेन साधवो दृष्टा भवन्तीति गाथार्थः ॥ ९ ॥ अथानन्तरोक्तयुक्तौ हेतुमाह - जम्हा अर्द्ध तित्थं न हुज्ज कइआवि सडसडीओ । पासत्था पुण निअमा सुसाहुअविक्खया समए ||१०|| यस्मात्कारणात्कदाचिदपि अर्द्धतीर्थं श्राद्धश्राज्यो न भवेत्, श्राद्धश्राद्धीरूपमर्द्ध तीथ न स्यादित्यर्थः, पार्श्वस्थाः पुनर्नियमेन सुसाधुसापेक्षकाः, यदि साधवो भवन्ति तदा भण्यंते एते पार्श्वस्थादयो, नान्यथा इति 'समये' जिनशासने, यावत्साधवो दृक्पथमागता न भवन्ति तावत्पाश्वस्थादिव्यपदेशोऽपि न संभवतीति गाथार्थः || १०|| अथ तीर्थार्थं श्राद्धश्रायः कथमित्याह चाउव्वण्णो संघो तित्थं तत्थविअ तइअठाणगओ । सड्डो साहुअभावे तित्थगओ नेव सड्डोऽवि ||११|| चातुर्वर्णः संघस्तीर्थं - साधुसाध्वीश्रावकश्राविकालक्षणचतुर्वर्णात्मकमखिलं तीर्थं भवति, तत्रापि तृतीयस्थानगतः श्राद्धः, उपलक्षणात् श्राद्धी चतुर्थस्थानगता, इतिकृत्वा साध्वभावे तीर्थगतः - तीर्थान्तर्वर्त्ती श्राद्धोऽपि न भवेत्, तीर्थव्युच्छिने प्रवृत्ते वा श्राद्धो नाममात्रेण कोऽपि स्यादपि, परं तीर्थवर्त्ती न स्यादेवेतिगाथार्थः || ११|| अथ तीर्थार्द्ध न भवतीत्यत्र व्याप्तिमाहउत्पत्ती पुण जुगवं जुगवं विगमोऽवि होइ तित्थस्स । तस्सद्धं जस्स मयं मयमाया तस्स खीरपया ॥ १२ ॥ उत्पत्तिः पुनर्युगपत्तीर्थस्य, विगमोऽपि युगपद्भवति, तस्य अर्द्ध यस्याभिमतं - तीर्थार्द्धमपि संभवतीत्यादि धीः स्यात् यस्य तस्य मृता माता-जननी क्षीरप्रदा-स्तन्यपानविधायिनी संपना, साध्वादिकमन्तरेण तीर्थार्द्धमसदपि सदितिधिया विकल्प्याराधनं मृत GOGO! THORGOLT HOITY साधुसचासिद्धिः ॥२३३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy