SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कटुकमतं OROGROLOGG माप्रवचन-ला परीक्षा ९ विश्रामे ___ अस्माकं गुर्जरप्रमुखे-गूर्जरमरूमालवसौराष्ट्र मेदपाटमेवातादिषु मुनयः साधवो न चक्षुःपथं-दृग्मार्ग व्रजन्ति, न दृष्टिमायां॥२३॥ तीत्यर्थः, एवोऽवधारणे, नैवेत्यर्थः, तत्र हेतुमाह-'जम्ह'त्ति यस्माद्यथोक्तक्रियापरायणाः-शास्त्रोक्तक्रियातत्परा न दृश्यन्ते, किंतु क्रियासु श्लथा इतिभावः, एवमव्यक्तनिह्नवोऽपि सम्यक्साधुनिर्णयाभावं ब्रुवाण आसीत् , परं तदपेक्षयाऽयं कटुकः क्लिष्टपरिणामः, यतः स ब्रूते-अयं साधुर्देवो वेति निर्णयो नामाकं, परं साधवोऽत्रैव सन्ति, कटुकस्तु गूर्जरत्रावन्यादौ दृश्यमानाः साधव एव न भवन्ति, किंतु केवलद्रव्यलिङ्गधारिणः, साधवस्तु क्वापि वैतात्यगिरिमूलादौ सर्वथा दृक्षथागोचरप्रदेशे सन्ति, एतच्च वचनं महादुर्वचनं, प्रवचनगन्धस्याप्युपधातकं, तेनाव्यक्तनिह्नवो देशेन सम्यक् तीव्रपरिणामवान् न स्याद् , अयं तु निहवापेक्षयाऽनन्तगुणा|भिनिवेशपरिणामयुक्त इतिगाथार्थः ॥४॥ अथ तस्यापरिज्ञानसूचिका श्रोतृणां भ्रान्तिजनिका च या युक्तिस्तामाह संघथए जुगपवरा जे भणिआ तेसि संपयं जुत्तो । विरहो न कालसंखासंकलणे इअ वयं तस्स ॥५॥ सङ्घस्तवे-श्रीदेवेन्द्रसूरिकृतदुष्षमाकालसंघस्तोत्रे ये युगप्रवराः-श्रीसुधर्मादयो युगप्रधाना भणितास्तेषां कालसंख्याःयुगप्रधानपदव्युदयकालसंख्यास्तासां संकलने-मीलने सम्प्रति-वर्तमानकाले विरहः-तदभावो न युक्तो-न संभवति, अयं भावःश्रीसुधर्मखामिनोऽष्टौ वर्षाणि युगप्रधानपदवीकालः,श्रीजम्बूस्वामिनश्चतुश्चत्वारिंशद्वर्षाणि युग०,श्रीप्रभस्वामिन एकादश वर्षाणि युग०, श्रीशय्यम्भवस्वामिनस्त्रयोविंशति० यशोभद्रखामिनः पंचाशत् श्रीसंभूतविजयस्याष्टी० श्रीभद्रबाहुखामिनश्चतुर्दश० श्रीस्थूलभद्र| कोनपंचाशत् यु. एवमुदयद्वयसंबन्धिनी युगप्रधानपदव्युदयकालसंख्या भवतीति तस्य कटुकस्य वचो-वचनमुपदेशरूपमितिगाथार्थः ॥५॥ अथ तत्राप्युद्दीपनप्रकारमाह OMGHOUGHORROROUGHOUGHORS OOGHOLORG ॥२३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy