SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ९ विश्रामे ॥२३०॥ DIGIGIOIGIONGIDIGHOGHONG तत्रैवासक्तमिति गाथायुग्मार्थः ॥ १-२ ॥ अथ तस्योपदेशं गाथाषट्रेन विवक्षुः प्रथमगाथामाह अव्वत्तनिण्हगाभिनिवेसविसअंधयस्स पावस्स । उवएसो महपावो पवयणउवधायगो नियमा ||३|| अव्यक्तनिडवाः - तृतीयाः श्रीआषाढाचार्यशिष्याः अयं साधुर्देवो वेति निर्णयाभावेनाव्यक्तत्वमाश्रिता नो परस्परं विनयादिकं कुर्वन्ति तेषां योऽमिनिवेश : - ( मिथ्यात्वं स इवामिनिवेश:) एकस्यामिनिवेशस्य लोपस्तद्रूपं यद्विषं तेनान्ध एवान्धकः यथान्धो न किमपि चाक्षुषं घटादिकं पश्यति तथाऽयमप्य मिनिवेशमिध्यात्वावृत्तान्तरलोचनो न साध्वादिकं पश्यति, एवंविधस्य पापस्य - पापात्मन उपदेशो महापापः, केवलपापरूप इत्यर्थः, ननूपदेशकः पापात्मा भणितस्तदुपदेशस्तु महापाप इति भणितं तत्कथमितिचेदुच्यते, उपदेशमन्तरेण भूयोऽपि पापं कुर्वन् पापात्मा भण्यते, तदुपदेशस्तु महापापं भण्यते, यदुक्तं - " एकत्रा सत्यजं पापं, शेषं निश्शेषमेकतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१॥” इति श्रीयोगशास्त्रवृत्ती, तथा चोपदेशवशादयं महापापात्मा भण्यते, तथापि तथाविधवाग्व्यापारहेतुक इतिकृत्वा उपदेश एव मुख्यवृत्या महापाप इति, अत एवाह - 'पवयण' त्ति नियमात् - निश्चयेनोपदेश: ' प्रवचनोपघातकः' प्रवचनं - तीर्थमुपहन्तीति प्रवचनोपघातको भण्यते, प्रवचनोपघातकत्वं च सत्यपि साधुसमुदाये नास्माकं दृक्पथं साधवोऽवतरन्तीति तृतीयनिह्नव। भिप्रायमाविष्कुर्वन् व्यवहारनयलोपी स्यात्, तल्लोपे च तीर्थोच्छेदजन्यं पातकं स्यात्, यदागमः - "ववहारनउच्छेए तित्थुच्छेओ हवइवस्स" मिति पञ्चवस्तुके, एतच्च सर्वपापापेक्षया महापापमितिगाथार्थः || ३ || अथाव्यक्तनिवामिनिवेशतुल्यतां दर्शयितुमुल्लेखमाहअम्हं गुज्जरपमुहे मुणिणो वच्च॑ति नेव चक्खुपहं। जम्हा जहुत्त किरिआपरायणा नेव दीसंति ॥ ४ ॥ NGONGSHONGKONG SHONGKONG कटुकमतं ॥२३०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy