________________
श्रीप्रवचन
परीक्षा ९ विश्रामे ॥२२९॥
DNGH SINGH
DIGHONOOKS YOU
अथ कटुक मतस्वरूपं निरूपयितुं प्रथमं गाथायुग्मेन मताकर्षक नामसंवत्सराद्याह
अह कडुअगि हत्थाओ जायं कुमयंपि कडुअनामेण । विक्कमओ चउसठ्ठी अहिए पन्नरससय १५६४ वरिसे ॥१॥ तस्स सरूवं किंची वुच्छं उवएसविसयमावण्णं । तित्थभासरूवं केवलपूआसु पडिबद्धं ||२|| जुम्मं ॥ 'अथे 'ति लुम्पमतनिरूपणान्तरं क्रमप्राप्तं नवमं कटुकमतं यज्जातं तस्य स्वरूपं किंचिद्वक्ष्ये इत्यन्वयः, तत्कुमतमपि कटुकनाम्ना कुत इत्याह- 'कटुक'त्ति कटुक गृहस्थात्- कटुकनाम्ना नागरज्ञातीयो वणिगासीत् स च प्रकृत्या सम्यग्धर्मजिज्ञासुरपि तथाविधक्लिष्टकर्मोदयतथा भव्यत्वपरिपाका दिसामग्रीवशात् कश्चिदागमिकमतसंबन्धिनं वेषधरं प्रति धर्ममार्ग पृष्टवान् तेन च पापात्मना भणितं - भो धर्मार्थिक ! यदि मदीयवचस्यास्था तर्हि आगमिकसामाचारमङ्गीकृत्य श्रावकधर्ममेव कुरु, यतो नास्त्यधुना साधवस्तथा| विधक्रियाकरणशक्त्यभावादित्यादि दुर्वचनोद्भान्तो धर्मार्थिक इत्यात्मानं ख्यापयन् साधुमार्गपराङ्मुखस्तथाविधसाधुमार्गदूषणान्वेपणतत्परान् कतिचिञ्जनान् विप्रतारयामास स च विक्रमतश्चतुष्षष्ट्यधिके पश्चदशशतवर्षे सं १५६४ वर्षे जातोऽतस्तन्मतं तदानीं जातं, तस्य मतस्य स्वरूपं किंचित् स्वल्पं वक्ष्ये, यतस्तन्मतमागमिकमूलकमतस्तनिरूपणे तस्यापि निरूपणं जातमेवेति कृत्वा किञ्चिदित्युक्तं तच किञ्चित्ततोऽपि भेदरूपमत आह- 'उवएस' त्ति उपदेशविषयमापन्नम् - उपदेशेनागमिकमतादपि मिश्रमिति कृत्वा उपदुपदेशविषयमापन्नं प्राप्तं सद्वक्ष्ये, यथा तस्योपदेशः स व्यक्तीकरिष्यत इत्यर्थः, पुनः कीदृशं :- 'तीर्थार्द्धाभासरूपं' तीर्थार्ध - श्रावकश्राविकालक्षणं तदिवाभासते इति तीर्थार्घामासः, तीर्थार्द्धमसदपि तद्वद् आभासत इति तीर्थार्द्धाभासः स एव रूपं स्वरूपं यस्य तत्तथा, पुनरपि कीदृश: ? - ' केवलपूजासु प्रतिबद्ध' जिनपूजैव श्रेयस्करी भविष्यतीति घिया तीर्थाधं साधुसाध्वीलक्षणं तिरस्कृत्य केवलं
HONGKONGHONIGHONEYONGHONGKONG
कटुकोत्पत्तिः
॥२२९॥