SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥२२७॥ लुम्पकाशिक्षाहेतुः तु गुरवः प्रवचनप्रभावनैकदृष्टयः प्रवचनप्रत्यनीकोच्छेदसमर्थाः श्रीहरिभद्रसूरिप्रभृतयो भूतपूर्वाः भाविनश्च सुमङ्गलसाधुप्रभृतयः, वर्तमानास्तु कालानुभावात्तथाविधशक्तिरहिता अपि प्रवचनप्रत्यनीकेषु भवादृशेषु सुमङ्गलसाधुकर्त्तव्यताशति.भाक्त्वमात्मनः स्पृह| यन्त एव बोध्याः, तव तु लिखनकर्मोपजीवी शौचाचारेऽप्यज्ञः असमर्थश्च लुम्पकनामा लेखक एवेत्याक्रोशवचोमिस्तिरस्कृत्य यथाशक्ति शिक्षणीयः,यदागमा-"साहूण चेइआण य पडिणीअंतह अवण्णवायं च। जिणपवयणस्स अहिअंसन्वत्थामेण वारेइ ॥१॥" इति श्रीउपदेशमालायां, तथा “से किं तं वण्णसंजलणया?,वण्णसंजलणया चउब्विहा पण्णसा, तं०-अहातच्चाणं वण्णवाई आविभवइ १ अवण्णवाई पडिहणित्ता भवइ २ वण्णवाई अणुव्हयित्ता भवति ३ आया वुडुसेवीआवि भवति ४"इतिश्रीदशाश्रुतस्कन्धे आचा| र्यसंपद्वर्णनाधिकारे, एतच्चूर्णियथा-पढमे भंगे याथातथ्यानां वर्णना, जो अवण्णं वदति तं पडिहणति, वण्णवादि अणुवृहति, गुणवानेव जानीते वक्तुं, 'आयावुडसेवि आविभवति' वुडो आयरिओ निचमेव पज्जुवासति-अविरहितं करोति, आसणद्वितो अ इंगिआगारेहिं जाणित्ता करेति इति श्री दशा० चू०, अत्र द्वितीयविकल्पे आचार्यस्य शिष्यस्तादृशो भवति यः साध्वादिप्रवचनस्यावर्णवादिनं प्रतिहन्ता भवति, अत एव हरिकेशिसाधुनाऽपि स्वनिमित्तं यक्षेण हतेष्वपि ब्राह्मणकुमारेषु यक्षो वैयावृत्त्यकारी भणितः, | यदागमः-"पुचि च इण्डिं च अणागयं च, मणप्पदोसो न मे अस्थि कोई । जक्खा हु वेआवडिअंकरिंति, तम्हा हु एए निहया कुमारा ॥१॥" इति श्रीउत्तरा० १२ (३९०*) वैयावृत्त्यं च महानिर्जराहेतुः तीर्थकरपदतानिबन्धनं, यदागमः-"वेयावच्चेणं भंते ! जीवे किं जणेइ १, वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधइति श्रीउत्त० २९, वैयावृत्त्यं साध्वादिमिः सर्वैर्यथाशक्ति करणीय, सामर्थ्याभावे च वैयावृत्त्यकारणं सामर्थ्य स्पृहणीयमेव, एतेन कथं साधवस्तथा स्पृहयन्तीति पराशङ्काऽपि व्युदस्ता, ॥२२७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy