________________
श्रीप्रवचन
परीक्षा
८विश्रामे ॥२२६॥
OGHOMGHOOOOOOOOOK
जैनशासनप्रत्यनीकं गई मिल्लं नामानं राजानं निवारितवान् ,तथा श्रीहरिभद्रसूरिरपि बौद्धान् प्रवचनप्रत्यनीकान्निवारितवान् ,एवं साधु
लुम्पकाप्रत्यनीकं विमलवाहननामानं राजानं सुमङ्गलसाधुभस्मसात्करिष्यतीति प्रवचने प्रतीतं,तदीदृशीच शक्तिर्मयि नास्ति, अस्ति च संप्रति
शिक्षाहेतुः कालानुभावात् संज्ञामात्रसूचकवाक्प्रयोगजन्ये निवारणे, तच्चास्मिन् प्रकरणेऽनेकप्रकारेण प्रयुक्तं, परं फलवत् सुमङ्गलसाधुसदृशे | सामर्थ्य सत्येव स्याद्, अथ तादृशसामर्थ्याभावे निदानमाह-'दुण्हंपी'त्यादि, द्वयोरपि-माइक्कुपाक्षिकयोस्तीर्थकुपाक्षिकयोर्वा कर्मोदयात् , मादृशेन प्राग्जन्मनि तदेव कर्मार्जितं येन तीर्थभक्तस्यापि मादृशस्य तीर्थरोगकल्पकुपाक्षिकवर्गस्य निवारणे शक्तिराहित्यं, कुपाक्षिकैश्च तत् प्राकर्मोपार्जितं येनानन्तभवहेतुतीर्थाशातनाकरणस्य निवारकः शक्तिमान् न मिलिष्यति, यद्वा संपतितीर्थेन सामुदायिकं कर्म तदेव कृतं येन धर्मकरणावसरे शुभध्यानमालिन्यादिहेतवस्तीर्थस्य परमरोगकल्पाः कुपाक्षिका उत्पत्स्यते इति, एवंविध| कर्मोदयात्सामर्थ्याभावः, नन्वेवं कथमितिचेच्छृणु, सुमङ्गलसाधुनाऽपि निजबले प्रयुक्ते साधुचारित्रशरीररोगकल्पे विमलवाहने विलयं नीते स्वस्यापि चारित्रपालनं सुकरं जातं, विमलवाहनोऽपि सुमङ्गलमुपद्रुत्यान्यानप्युपाद्रविष्यत् ,तथा च भूयोऽनन्तभवभ्रमण-4 हेतुकर्मोपार्जनमकरिष्यत् , तच्च न जातमतो महान गुणो राज्ञोऽपि, तथा यदि मयि तादृशं सामर्थ्य स्यात्तहि जैनप्रवचनशरीरे रोग| कल्पेषु कुपाक्षिकेषु चिकित्सितेषु रोगरहिते जैनप्रवचने विद्यमाने साध्यादीनां निजरधर्मानुष्ठानं निरपायं स्यात् , कुपाक्षिकाणामपि प्रतिसमयं तीर्थोच्छेदाध्यवसायजन्यं पापं न स्यादित्युभयेषामपि कर्मोदयादेव जैनप्रवचनरोगोच्छेदे तथाविधसामाभावः, एतेन ननु भो भवतां गुरवस्तु बौद्धहन्तृश्रीहरिभद्रसूरिमुद्गलानयनपुरस्सरगर्दभिल्लोच्छेदकश्रीकालकसूरिप्रभृतय एवेति वचोभिः समलङ्कतं
| ॥२२६॥ | सत्पुरुषं प्रति विगतवसनो देवतायत्त इवोपहसन्नेव निरस्तो बोध्यः,यतस्तथाविधवक्तारं लुम्पकं प्रत्येवं वक्तव्यं-ननु भो लुम्पक अस्माकं
SHORORORGROOOOOO