________________
श्रीप्रवचन
परीक्षा ८ विश्रामे 1२२५॥
लुम्पकाशिक्षाहेतुः
POOR.GOOGHOGHODoto
तम्मुहचवेडदाणे देवावि निरुज्जमा दुफासभया। जह नीअफासभीओ अ बंभणो भोअणुज्जुत्तो ॥१६८॥
'तन्मुखचपेटादाने' तस्य-लुम्पकस्य मुखे चपेटा-हस्ततलाहतिस्तस्या दाने देवा अपि निरुद्यमा-उद्यमरहिताः, 'कुस्पर्शभयात्' कुत्सितो-निन्द्यो यः स्पर्शस्तस्मात् , चपेटादाने ह्यवश्यं स्पर्शः कर्त्तव्यः स्यात् , स च नामाकमुचित इति भयादिवोत्प्रेक्ष्यते तथाभृताः, तत्र दृष्टान्तमाह-'जहे त्यादि, यथा नीचस्पर्शादीत:-चाण्डालादिस्पर्शभीतश्च ब्राह्मणो भोजनोद्यतो भवति, भोजनक्रियापरायणो हि ब्राह्मणो नीचवर्णस्पर्शभयाकुल एव स्याद् , अन्यथा भोजनसामग्र्या वैयर्थ्यापत्तेः, तथा देवा अपि लुम्पकस्पर्शानास्माकं पुण्यमकृतिविनोऽभूदित्यभिप्रायात्तत्स्पर्शविरक्ता इतिगाथार्थः॥१६८॥ अथ देवनिवारणाभावे गत्यन्तरमाह
तस्स व न कोई मित्तं देवाई जं न देइ अवहत्थं । हालाहलं पिअंतं वारिजइ सो परममित्तं ॥ १६९॥
तस्य-लुम्पकस्य देवादि:-असुरकुमारादिदेवोऽथवा समर्थो मनुष्यश्च कोऽपि मित्रं नास्ति, यतः कारणादपहस्तं-हस्ततलाधोभागं चपेटास्वरूपेण न ददाति, हालाहलं विषं पिबन्तं यो वारयेत्-चपेटादानादिपुरस्सरं निवारयेद्, हस्तादुद्दाल्य विक्षिपेद्, एव| कारोऽध्याहार्यः, स एव परमं मित्रं, नान्योऽप्युपेक्षक इतिगाथार्थः॥१६९।। अथ यद्यपि मादृशे मित्रे विद्यमानेऽपि कोऽपि मित्रं नास्तीति वक्तुमयुक्तं, परं तत्र गतिमाहमित्तंपि तुहं अम्हारिसो हु सो दूसमाणुभावेण । सत्तिरहिओ अ सिक्वादाणे दुण्हंपि कम्मुदया॥१७॥ हे कुपाक्षिक! तवासादृशो मित्रमपि दुष्षमानुभावेन शिक्षादाने शक्तिरहितः,निवारणं च शक्तिसाध्यम् ,यथा मणिनागेन यक्षेण क्रियाद्वयवादी गङ्गो निवारितः,यद्वा तिष्यगुप्तश्चरमप्रदेशजीववादी श्रेष्ठिनासमुच्छेदवादी च मित्रश्रीराज्ञा(जेन)निवारितः,तथा कालकाचार्यों
KONDOROHOROOGHOGOOGार
॥२१५॥