SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२२४॥ DUDIOHDHDINGH DIGHONGKONGHOIGH लुम्पकापत्यं भाणर्षिरूपर्षिप्रभृतिर्भाषते, दृष्टान्तमाह - 'गत्ते 'त्यादि, यथा गर्त्ताशुकरापत्यमात्मानमहं गजेन्द्रापत्यमिति भाषते, एतच्चासंभव्येव संभूतमित्याश्चर्यमिति, पुनरप्याश्चर्यमाह - 'जिणवरे 'त्यादि, जिनवरस्थापितं तीर्थं हिंसाधर्मस्य भाषकं लोके, लुम्पकविकल्पितो मार्गस्तु सर्वलोकनिन्दात्मकोऽपि दयाप्रधानः प्रवरधर्मः शिवमार्गः - मोक्षस्य पन्था इत्यप्याश्चर्यमितिगाथायुग्मार्थः ।।१६५ - १६६ ।। अथैवं जगत्स्थितिपरिहारेण जायमाने किं युज्यमानं जातमित्याह इच्चाइ भासमाणस्स मत्थए जं न विज्जुआपाओ । तत्थ निमित्तं लंपगपावं कृवा हिमुहणाया ॥ १.६७ || इत्यादि प्रागुक्तप्रकारेण भाषमाणस्य लुम्पकस्य मस्तके विद्युत्पातो जगत्स्थित्या युज्यते, स च न जातस्तत्र निदानं लुम्पकपातकमेव, केन दृष्टान्तेनेत्याह - 'कुवाही' त्यादि, कूपाभिमुखज्ञानात्, यद्वा कूपञ्चाहिमुखं च कूपाहिमुखे तयोर्ज्ञाताद् - उदाहरणाद्, अयं भावः - कूपपातायाभिमुखः सम्मुखः कूपाभिमुखः यद्वा कूपपाताय अहिमुखं स्प्रष्टुं च धावमानस्य कूपसर्पसमीपगमनाशक्तिहेतुः पादस्खलनादि भूमिपातः पुण्यप्रकृत्यात्मके नरायुषि सत्येव स्यात्, तदभावस्तु पापोदयादेव, अयं भावः - यद्यपि पादस्खलनादिना भूमिपातोऽशुभोदयजन्य एव, तथापि कुतश्चिन्निमित्तात् कूपपाताय धावमानस्य कूपसमीपगमनाशक्तिहेतुत्वमधिकृत्य भूमिपातः शुभोदयादेव स्याद्, एवं विद्युत्पातोऽप्यशुभजन्योऽपि दीर्घकालमुत्सूत्र भाषणापेक्षया अल्पकालीनमुत्सूत्र भाषणं श्रेयः, तन्निमित्तं च तथा ब्रुवाणस्य मस्तके विद्युत्पात एव, स च प्रतिसमयमनन्तसंसारहेतोरुत्सूत्रस्योच्छेदको न पुण्यप्रकृत्युदयमन्तरेण स्यात्, जैनप्रवचने च कर्मपरिणति रापेक्षिकी, यदागमः - " चत्तारि कम्मपरिणई पं० तं० सुहे णाममेगे सुहपरिणए सुहे णाममेगे असुहपरिणए असुहे णामं० सुहप ० असुहे० असुहप०" इति श्रीस्थानाङ्गे इतिगाथार्थः।। १६७।। अथैवंविधं प्रवचनप्रत्यनीकं देवाः कथं न विनयन्तीति पराशङ्कामपाकर्तुमाह SIGHONGKONG YONGONDIYNGHS लुंपकहितो पदेशः ॥२२४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy