________________
| तपोगच्छे महानिशी
परीक्षा ८ विश्रामे ॥२२॥
यमानं
| नैन खरतरपाशौ निरस्तौ, उपधानवहनविधिवचनवजाहतास्तु खरतरवर्जाः सर्वेऽपि क्षणमात्रक्षीणप्राणाः भवन्तीति कुपाक्षिकाणी महानिशीथाप्रामाण्ये हेतुः, नहि खोपघातक शस्त्रं कोऽप्यङ्गीकुरुते, येन कारणेनैवं तेनैव कारणेन, सप्तम्यर्थे षष्ठीति, तपागणतीर्थस्य | | परमसूत्रम्-उत्कृष्टं सूत्रमिदमेवेति प्रमाणं, नच तपागणस्तीर्थमिति यदुक्तं तदसंगतं भविष्यतीति शङ्कनीयं, श्रीहरिभद्रमरिप्रभृति| मिस्तपागणस्यैव तीर्थत्वेन भणितत्वात् , तत्कथमितिचेच्छृणु-"इमं महानिसीहं सुअखंधं कसिणपवयणस्स सारभूअं परं तत्तं मह
त्थंति कलिऊण पवयणवच्छलत्तणेण बहुभव्वसत्तोवयारिअंतिकाउं तहाय आयहिअठ्याए आयरिअहरिभद्देण जंतत्थ आयरिसे दिलु | जातं सव्वं समतीए सोहिऊणं लिहिअंति"ति भणनेन यस्येदं परमसूत्रतया प्रमाणं तदेव तीर्थ, तदर्थमेव लिखनादिप्रयासं कृतवान् | श्रीहरिभद्रसरिः, एतेन येषामिदमप्रमाणं ते तीर्थवाद्यास्तैरेव भणिताः, तथा यद्वस्तु यदर्थ जगत्स्थित्या वर्तते तद्वस्तु तथैवोपयुज्यमानं प्रशस्तं, नान्यथेतिकृत्वा तीर्थस्य वाऽस्याङ्गीकारो युक्तो, नेतरेषां, तदर्थमनभिहितत्वात , नहि मार्जार्या ललाटतिलकनेत्राञ्जनादिमुखशृङ्गारविलोकननिमित्तं निर्मलदर्पणनिर्मापणं दृष्टं श्रुतं वा, एतेन श्रीमहानिशीथविषयकमुपेक्षावचनमाकर्ण्य तीर्थान्तवर्तिना| केनाप्युपेक्षापरायणेन न भवितव्यं, एवं नियुक्त्यादिविषयकमपि कुपाक्षिकोपेक्षावचनमकिश्चित्करतयैव बोध्यं, नहि सुवर्णकचोलके कपूरवासितं शोभनं जलं गईभीदन्तधावनपानादिनिमित्तं, नवा ज्योतिर्विदां ज्योतिःशास्त्राभ्यासः शुनीपुत्रजन्मपत्रिकापरिज्ञाननिमित्तम् , एवमेतद्विषयिणी निन्दापि कुपाक्षिकमुखप्रभवा युक्तैव, यतः-विपुलहृदयाभियोगे, खिद्यति काव्ये जडो न मौख्य स्खे। निन्दति कञ्चुककारं प्रायः शुष्कस्तना नारी ॥१॥ इत्यादि यद्यस्यानुपयोगि तत्तस्य निन्दास्पदं भवत्येव, किंच-कुपाक्षिकाणां परम्पराया अनङ्गीकारेण तन्मूलकस्य परम्परागमस्याप्यभाव एव, किंतु तेषां न जिनागमो नवा शैवागमः, किंत्वव्यक्त एव, अत एव
॥२२॥