________________
D
श्रीप्रवचन
परीक्षा | ८ विश्रामे ॥२२१॥
तपोगच्छे महानिशीथमानं
O
HOROHOGHOHOROID
| महावीरस्य जातेति नोक्तं, तन्निश्चयश्च "तिहिरिक्खंमि पसत्थे महंतसामंतकुलप्पसूआए । कारिंति पाणिगहणं जसोअवररायकण्णाए ॥१॥" इत्यादि, तथा "पंचविहे माणुस्से भोए भंजित्तु सह जसोआए। तेअसिरिं व सुरूवं जणेइ पिअदंसणं धूअं ॥२॥" इत्यादि शास्त्रान्तरमन्तरेण कथं स्यात् ?, न कथमपीत्यर्थः। ननु तीर्थकृतो भार्या परिणीतैव स्यात् पुत्रादिरपि जगत्स्थितिधर्मसत्यार्थापनेनैवेत्यर्थाल्लभ्येऽप्यर्थे सूत्रे वा तावन्नोक्तमितिवचनं धान्यखादकमात्रस्याप्यसंभवीति चेचिरं जीव, यदि जिनप्रतिमा तर्हि श्रावकेणैव कारिता, यदि प्रतिष्ठा तर्हि साधुनैव कृतेत्याल्लभ्येऽप्यर्थे श्रीमहावीरस्यैकोनषष्टिसहस्राधिकलक्षप्रमाणानां श्रावकाणां मध्ये केन श्रावकेण प्रतिमा कारिता ? केन साधुना कृता प्रतिष्ठेत्यादिवचनं मुग्धजनविप्रतारणाय ब्रुवाणस्य लुम्पकस्य किंखादकत्वमाख्यायते ? इति ब्रहीति, यच्च सूत्रसूचितस्य पदार्थस्य व्यतिकरनिर्णायकं तदेव तत्सूत्रच्याख्यानं, तस्मात् सूत्रापेक्षया प्रकरणानि बलवन्ति,सूत्राङ्गीकारे च प्रकरणाङ्गीकारोऽवश्यं कर्त्तव्यः, परिहर्त्तव्यं चोभयमपीति, अथवा सकलं सूत्रं कुपाक्षिकाभिप्रायेणैकखरूपेण सम्यग | स्याद् अङ्गोपाङ्गादीनि सर्वाण्यपि, यदि भिन्नखरूपेणार्थतः पाठतो वा स्युस्तदा परस्परं विरोधीन्येव, कुपाक्षिकाणामाकृतं परममधममेवेत्यतिप्रसङ्गो लोकप्रसिद्धो महादोषः कुपाक्षिककृतान्तकल्प इतिगाथार्थः ।।१६२॥ इत्यतिप्रसङ्गरूपं पञ्चमं द्वारं दर्शितं, अथ कुपाक्षिकमात्रस्य श्रीमहानिशीथं न प्रमाणं, तपागणस्य च परमसूत्रतया प्रमाणमित्यत्र को हेतुरित्याह
सव्वकुवखुच्छेओ महानिसीहेण सुत्तमित्तेणं । तेणं तवगणतित्थे पमाणमिह परमसुत्तंति ॥१६३॥ ___ अपिरध्याहार्यः, श्रीमहानिशीथेन सूत्रमात्रेणापि सर्वकुपाक्षिकोच्छेदो भवति, तथाहि-दिगम्बरखरतरपाशव्यतिरिक्ताः सप्तापि पाक्षिकाश्चतुर्दशीपाक्षिकोक्तिशक्तिप्रहता निःश्वसितुमप्यशक्ताः, तेषां पूर्णिमायां पाक्षिकत्वाभ्युपगमात्, ससाधुसाध्वीविहारभण
KOOHORIOROGRatootu
॥२२१॥