SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा | ७ विश्रामे ॥२०॥ THORROROTOHORGROUGHORHA मिहितं तदपवादतोऽन्यथैव स्याद् , उत्सर्गापवादौ च तीर्थकृद्धिर्भणितावितिगाथाथः॥३०॥अथोक्ते सम्मतिं सूत्र एव निर्दिशति,यतः म्मात सूत्र एव निर्दिशति,यतः श्रुतदेवतातम्हा सव्वाणुण्णा सव्वनिसेहो अ पवयणे नत्थि । आयं वयं तुलिजा लाहाकंखिव्व वाणिअओ॥३१॥ all दिस्तुतिएतट्टीका यथा, यत एवं तस्मात् स्थितमेतत्-सर्वप्रकारैरनुज्ञा यदुतेदं कर्तव्यमेवेति सर्वानुज्ञा, तथा सर्वनिषेधो यदुतेदं न सिद्धिः कर्त्तव्यमेवेति प्रवचने-सर्वज्ञागमे नास्ति, चशब्दस्खेहावधारणार्थत्वेन संबन्धात् नास्त्येव, सर्वकर्त्तव्यानां द्रव्यक्षेत्रकालभावाद्य| पेक्षया विधानानिषेधाच्च, द्रव्यादीनां च वैचित्र्येण क्वचिद्विषये विधेयस्यापि निषेधावसरः स्यात् , निषिद्धस्यापि च विधानमापद्यते, तदुक्तम्-"उत्पद्यते हि साऽवस्था, देशकालामयान् प्रति । यस्थामकार्य कार्य स्यात् , कर्मकार्य च वर्जयेत् ॥१॥" क इवेत्याह-लाभा| काङ्खीव वाणिजको, यथाऽसावायव्ययतुलनया बहुलाभे प्रवर्त्तते, तथा लाभेन प्रवर्त्ततेत्यर्थः, केवलं प्रवर्त्तमानेन रागद्वेषपरिहारेण सम्यगात्मा योजनीयो, न शाठ्यादपुष्टावलम्बनं विधेयमित्याहेत्यादि श्रीउपदेशमालागाथार्थः॥३१॥ अथ किं संपन्नमित्याहतेणं भगवइठाणयअविरोहो होइ सम्मदिट्ठीणं । तित्थुइओ खलु तित्था बज्झो बज्झाण बज्झाउ॥३२॥ तेन-प्रागुक्तयुक्त्यादिदर्शनविधिना भगवतीस्थानाङ्गाविरोधः-भगवत्यां श्रावकाणामपि यक्षादिनिश्राराहित्यं भणितं स्थानाङ्गे चाचार्योपाध्यायानामपि मन्त्राधाराधनं भणितम् , उपलक्षणाच्छ्रीभद्रबाहुस्वामिना च श्रुतक्षेत्रदेवतादिस्तुतिदानं भणितं, कृतं च श्रीहरिभद्रसूरिभिः संसारदावादिस्तुतिकरणेन, इत्येवंरूपेण भगवतीस्थानांगयोर्यों विरोधस्तदभावोऽविरोधो भवति,केषां?-सम्यग्दृष्टीनां, | मिथ्यादृशां कुपाक्षिकाणां तु सर्वत्रापि विरोध एव प्रतिभासते, तेषां तथास्वभावात् , अत एव त्रिस्तुतिकः-आगमिकापरनामा खलु|वधारणे त्रिस्तुतिक एव 'बाह्यानां बाह्यात् बाह्यो'-बाह्यानां-तीर्थबहिर्भूतानां पौर्णिमीयकानां मध्यात् बाह्यः-स्तनिकस्तस्मादपि बाह्य SHOWGOOOOOOGOOHORIGHT
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy