SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ७ विश्रामे ॥१९॥ श्रुतदेवता दिस्तुति OMGHORTHOUGHOUGROUGHOROUGना क्तस्थले बोध्यः, जिनाज्ञा च नैहिकार्थ, किन्तु धर्मार्थ, तच्च प्रवचनहितं श्रुतदेवताधाराधनम् , अन्यथाऽर्हदाज्ञाया असंभवादिति | गाथार्थः ॥२७॥ अथ यस्मादाज्ञाव्यतिरिक्तस्थले नियमः-'तेणं ति तेन कारणेन सम्यग्दृष्टीनां देवतादीनामाराधनं-स्तुत्यादिकरणेन |तुष्टिजननं न विरुद्धम्-अविरुद्धं, युक्तमित्यर्थः, यथा सप्तमो निहवो-गोष्ठामाहिलो जीवस्य कञ्चुकन्यायेन कर्मबन्धं प्ररूपयन् तीर्थनिवारितोऽपि न तिष्ठति तदा तीर्थेन गोष्ठामाहिलखरूपपरिज्ञानाय शासनसुरीमाराध्य महाविदेहे तीर्थकरसमीपे प्रेषिता, |तया च तीर्थकृत् पृष्टः-किं गोष्ठामाहिलः सम्यग्वादी उत दुर्बलिकापुष्पमित्रप्रमुखः सङ्घो वेत्युक्ते तीर्थकृतोक्तं-गोष्ठामाहिलो मिथ्यावादी सप्तमो निसव इत्यादि सर्वजनप्रतीतमितिगाथार्थः ॥२८॥ अथ श्रुतदेवतादिदृष्टान्तेन खमत्या यथा तथा यक्षाचाराधनतत्परः कीदृग् स्यादित्याह__ आणाभिण्णट्ठाणे इच्छंता जकखपमुहसाहजे । पायं धम्मपभट्ठा णो धम्माराहगा हुंति ॥२९॥ आज्ञाभिन्नस्थाने-जिनाज्ञाव्यतिरिक्तस्थले यक्षादिसाहाय्यमिच्छन्तःप्रायः धनपुत्राद्यर्थं तदाराधनतत्परस्तदपूतौं प्रायो धर्मप्रभ्रष्टाः-धर्ममार्गपराङ्मुखा धर्माराधका नो भवन्ति तेन धर्मार्थिनां यक्षादिसांनिध्यमकिञ्चित्करम् , अत एव देवाद्युपसर्गेऽपि श्रावका अप्यचलाः प्रवचने निर्दिष्टा इतिगाथार्थः॥२९॥ नन्वेवं श्रुतदेवताचाराधनमप्ययुक्तं भविष्यतीति पराशङ्कामपाकर्तुमाहनय किंचि पडिसिद्धं सव्वं सब्बप्पयारओ समए। उस्सग्गाइविवकखा दक्खा कहमण्णहा होइ ?॥३०॥ न च समये-जिनशासने सर्व वस्तु प्रतिषेधाह सर्वप्रकारेण-सर्वथा प्रतिषिद्धमस्ति,अन्यथा यदि सर्वथा प्रतिषिद्धं स्यात्तर्हि उत्सर्गादिविवक्षा-उत्सर्गापवादविवक्षा उत्सर्गपदे तावदित्थमित्थं चापवादपदे इत्यादिविवक्षा दक्षा-निपुणा कथं भवति ?, यदुत्सर्गेणा नाDISRONGHOUGHOUGHONGKONGue ॥१९॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy