________________
श्रुतदेवता
श्रीप्रवचन
परीक्षा ७ विश्रामे ॥१८॥
KOHOROकामकाज
विद्यते किश्चनं येषां तेऽकिञ्चनाः भणिताः, केन ?-धीरेण-केवलज्ञानबलवता वीरेण-श्रीमहावीरतीर्थकृतेति दृष्टान्त इतिगाथार्थः ॥२४॥ अथ दाान्तिकमाह-तथा प्रागुक्तदृष्टान्तेन धर्मे-जिनोक्तमार्गे दृढचित्ताः भवन्तो यक्षादिसहायाभावेऽपि आज्ञया श्रुतदेवीप्रमुखाणां सहायमिच्छन्ति, अयं भावः-उपकरणानामिवाज्ञया श्रुतदेवतादिसहायतामिच्छतामपि साध्वादीनामकिश्चनत्वमिव यक्षादिसहायाभाव एवेतिगाथार्थः ॥२५॥ अथ प्रकारान्तरेणापि कथश्चियुक्तिमेदमाहइहलोइअतुट्टा किंचिवि नेच्छंति जकखपमुहेहिं । तेणं वा तन्निस्सारहिआ भणिआ य धम्मरया ॥२६॥
इहलौकिका अर्थाः-धनधान्यपुत्रकलत्रादयस्तेषु तुष्टाः-पूर्णतया निःस्पृहतया वा संतोषभाजोऽनिच्छव इत्यर्थः, संसारखरूपसम्यक्परिज्ञानादनन्तशोऽवाप्ता इमे संयोगा इत्येवमनासक्ताः किंचिदपि ऐहिकार्थ वस्तुजातं यक्षप्रमुखेभ्यो नेच्छन्ति तेन वा-अथवा | तन्निश्रारहिता-यक्षादिसांनिध्यरहिता धर्मरताः-जिनधर्मपरायणा भणिता इतिगाथार्थः॥२६।। अथ यक्षादिनिश्रानिषेधेन न श्रुत| देवतादिस्तुत्यादिनिषेध इत्याहसुअखित्तदेवयाईउस्सग्गो नेव तत्थ पडिसिद्धो। जपणं तं जिणआणा आणारहिअंमि सोनिअमो॥२७॥
तेणं पवयणअठ्ठा सम्मद्दिठ्ठीण देवयाईणं । आराहणमविरुद्धं जह सत्तमनिण्हगठाए ॥२८॥ ___तत्र यक्षादिनिश्राया अभावे श्रुतक्षेत्रदेवताद्युत्सर्गो नैव प्रतिषिद्धः, तत्र हेतुमाह-"जण्णं"ति यत्-यस्मात् णमितिवाक्यालङ्कारे जिनाज्ञा-तीर्थकरस्याज्ञा, प्रवचने चाज्ञाया एव प्राधान्यं, यतः कारणाद् आज्ञा हि धर्मशरीरे जीवकल्पा, नहि जीवविप्रमुक्तं सुन्दरमपि शरीरं कनकाद्यास्तरणपरिधापनाह संभवति, तस्माद्धर्मचिकीर्षुणा यक्षादिनिश्राराहित्यमिति, स नियम आज्ञारहिते-जिनाज्ञाव्यतिरि