SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवता श्रीप्रवचन-1 परीक्षा ७ विश्रामे ॥१७॥ सिद्धि द्भण्यते ?, इत्येवंरूपेण कुपाक्षिकाभिप्रायेण विरोधः संपद्यते, परं स विरोधः सम्यग्दृशां न स्यादेव, यतोऽनेषणीयाहारपरित्यागी क्षुत्परीषहजेता भण्यते, स च जिनाज्ञया भुञ्जानोऽभुंजानो वेत्युभयथापि समान एवेति कुतो विरोधगन्धोऽपि?, दार्शन्तिकयोजना त्वेवं-यदि यक्षादयो मह्यं धनादिकं पुत्रादिकं च ददति तदाऽहं जिनोक्तं धर्म करोमीत्यादिरूपेण यक्षादिनिश्रा भण्यते, सा च धर्मा|र्थिनां न युक्ता, जिनैरननुज्ञातत्वात् , तस्मादनेषणीयाहारकल्पा तथाविधयक्षादिनिश्रा तया रहितः शुद्धाहारग्रहणकल्पं जिनाज्ञया | प्रवचनाद्यर्थ सम्यग्दृशां श्रुतदेवताशासनदेवतादीनामाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भण्यते, अतः कुतो विरोधगन्धोऽपि?, अथ | पुनरपि दृष्टान्तो,यथा आज्ञया-अर्हदुपदेशेन भुञ्जानोऽपि साधुरुपवासी भण्यते, यदागमः-"निरवजाहारेणं साहूणं निच्चमेव उववा सो"त्ति तथा जिनाज्ञया श्रुतदेवताधाराधनं कुर्वन्नपि यक्षादिनिश्रारहितो भवति, पुनरपि प्रकारान्तरेण दृष्टान्तमाह-यथा निरवद्याहार| ग्रहणेनोपवासी सन्नपि तद्विरोध्याहारत्यागरूपः पुनरप्युपवासमुत्तरगुणवृद्धिहेतवे करोति, यदागमः-"उत्तरगुणवडिकए तहविअ उव| वासमिच्छंति"त्ति तथा यक्षादिनिश्रारहितोऽपि श्रुतदेवतादिसाध्यप्रवचनोत्सप्पर्णादिहेतवे तदाराधनं युक्तमेवेति दृष्टान्तत्रयेण सम्य| ग्दृशां विरोधाभावो दर्शित इतिगाथार्थः ॥२३॥ अथ प्रकारान्तरेणापि दृष्टान्तो यथा अहवा रयहरणाइअउवगरणे धम्मसाहणे संते । मुणिणो अकिंचणा ते भणिआ वीरेण धीरेण ॥२४॥ तह जक्खाइसहायाभावे धम्मेऽवि हुँतु दढचित्ता। आणाए सुअदेवीपमुहाण सहायमिच्छति ॥२५॥ ___ अथवेति प्राग्वत् रजोहरणादिकोपकरणे-रजोहरणमुखवत्रिकाकल्पत्रिकचोलपट्टकमात्रकलक्षणानि सप्त सप्त च पात्रसंबन्धीनीति चतुर्दशोपकरणसमुदाये धर्मसाधने-स्थविरकल्पिकानां चारित्रलक्षणधर्मसाधनहेतौ सत्यपि-विद्यमानेऽपि ते मुनयोऽकिश्चना:-न जा॥१७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy