________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२१४॥
97045
SHOT
SIGHOSHOH
१२ पञ्चकखाणे १३ थयथुइमंगले १४ कालपडिलेहणया १५ इत्यादीनि त्रिसप्ततिर्द्वाराण्युक्तानि, तत्र यदि जिनप्रतिमाप्रासादादिकं धर्मकृत्यमभविष्यत्तर्हि जिनप्रतिमादिव्यतिकरसूचकं चतुःसप्ततितमं द्वारमकथयिष्यत् तच नोक्तमित्यादि मुग्धजन विप्रतारणवचनो लुम्पको निरस्तो बोध्यः, तत्र श्रावकसंबन्धि धर्मकृत्यानामनधिकाराद्, अधिकारस्तु तत्र साधूनामेव, साधुकृत्यं च चैत्यनमस्कृतिलक्षणं, तच्च नियतक्रियारूपतया दर्शितं "थयथुइमंगलेणं भंते” इत्यादि चतुर्दशद्वारे, तथा सामाचार्यां चेत्यादि जिनप्रतिमानां नियतक्रियायामुपयोगः साधूनामिति दर्शितम् ।। अथ श्रावक क्रियामधिकृत्याह - 'सावय किरिये 'त्यादि, श्रावकक्रियायां पुनः श्रीमहानिशीथादिसूत्रेषु चैत्यानामुपयोगो भणितः अयं भावः - उपधानवाहनानन्तरं नमस्काराद्यनुज्ञावसरे ननु भो अमुक श्रावक ! श्राविके ! वा यावदर्हचैत्यानि साधवश्च सति प्रस्तावे यावद्वन्दिता न भवन्ति तावत्प्रातरुदकपानं न कर्त्तव्यं, मध्याह्ने चाशनक्रिया यावच्छयनक्रिया न कर्त्तव्येत्येवमभिग्रहं कुर्वित्यादिनोपदेशेन ग्राहिताभिग्रहस्य श्रावकस्यानुज्ञा दातव्या, यदागमः - " एआवसरंमि सुविइअसमयसारेण गुरुणा पबंधेणं अक्खेवनिक्खेवाइहिं पबंधेहिं संसारनिव्वेयजणणिं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं (२२) तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुअभव! भो भो देवाणुप्पिआ तए अजप्पभिईए जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेअव्वे, इणमेव भो मणुअत्ताओ असुइअसासयखणभंगु राओ सारंति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू अ न वंदिए, तहा मज्झण्हे ताव असणकिरिअं न काय जाव चेइए ण वंदिए, तहा अवरण्हे चैव तहा कायव्वं जहा अदिएहिं चेइएहिं णो संझाकालमइकमेजा (२३) एवं च अभिग्गहबंधं काऊण जावजीवाए ताहे गोअमा ! इमेआए चैव विज्जाए अहिमंतियाओ सत्त गंधमुठ्ठीओ तस्सुत्तमंगे नित्थारपारगो भवेजा
DHOHONGKONGHONGKONGHONGKONGH
जिनमति"
मोपयोगः
॥२१४॥