________________
भोप्रवचन
परीक्षा ८ विश्रामे ॥२१३॥
जिनमति
मोपयोगः
GOOGHOUGHOGHOIGHold
उक्तं च-"भत्तीइ जिणवराणं परमाए खीणपिजदोसाणं । आरुग्गबोहिलामं समाहिमरणं च पाविति ॥१॥"इत्यादिश्रीउत्तरा वृह०, | अत्र प्रतिमानां पुरस्तात्स्तुतिस्तवमङ्गलं ज्ञानदर्शनचारित्रबोधिलाभहेतुर्भणितम् , अत एव रात्रिकप्रतिक्रमणे नमस्कारादिप्रत्याख्याना
नन्तरं सन्निहितचैत्यानां वन्दनं साधुसामाचार्यामपि भणितं, यदागमः-"पारिअकाउस्सग्गो, बंदित्ताण तओ गुरुं। तवं संपडिव| जित्ता, करिज सिद्धाण संथवं ॥१॥"(१०४२)इति श्रीउत्त० २६, एतद्वत्त्येकदेशो यथा नवरं तपो-यथाशक्ति चिन्तितमुपवासादि
संपतिपद्य-अङ्गीकृत्य कुर्यात् सिद्धानां संस्तवं-स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथाह भाष्यकार:| "वंदित्तु निवेयंती कालं तो चेइआई जइ अस्थि । तो वंदंती कालं जह तुलेउं पडिकमणं॥१॥"ति श्रीउ० बृह"पारिअकाउस्सग्गो | (सिद्धाण संथवं किचा) वंदित्ताण तओ गुरु। थुइमंगलं च काउं, कालं संपडिलेहए ॥१॥ (१०३३*) इति श्रीउ० २६, एतद्व० | स्तुतिमङ्गलं-सिद्धस्तवरूपमिति श्रीउत्तरा० बृ०,अत्र च सिद्धशब्देन जिनप्रतिमा सूत्रत एव लभ्यते, तथाहि-तेसि णं अंजणगपव्व
याणं उवरिं बहुसमरणिज्जा भूमिभागापं०,तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुसमरमणिजभूमिभागे चत्तारि सिद्धायतणा पं०, | तेसिणं सिद्धायतणाणं एगं जोअणसयं आयामेणं पण्णासं जोअणाई विक्खंभेणं बावत्तरि जोअणाई उर्दू उच्चत्तेण मित्यादि श्रीस्थानाङ्गे, एतद्व०-सिद्धानि शाश्वतानि सिद्धानां वा-शाश्वतीनामहत्प्रतिमानामायतनानि-स्थानानि सिद्धायतनानि, उक्तं च-"अंजणगपव्वयाणं सिहरतलेसुं हवंति पत्तेअं। अरिहंतायतणाई सीहनिसीहाई तुंगाई ॥१॥” इत्यादि श्रीस्था० वृ०, तथा चाधिकारवशाच्चैत्यसिद्धार्हदहत्प्रतिमादीनामेकार्थतैव बोध्या, एतेन सम्यक्त्वपराक्रमाध्ययने संवेगे १ निव्वेए २ धम्मसद्धा : गुरुसाहम्मि| असुस्मुसणया ४ आलोअणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९ वंदणए १० पडिकमणे ११ काउस्सग्गे
SONGHOUGOHOROSHO
॥२१३॥