SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ भीप्रवचन परीक्षा ८विश्रामे ॥२०७॥ मिथ्याम् न विमान पतिः DOHOROHOROROOOOOOOO वेष्विव तेषु दृष्टेषु यदि कस्यापि सम्यक्त्वमुत्पद्यते, उत्पद्यतां नाम, तथापि मिथ्यात्वभावितत्वात्तान्यनायतनमेव निववत् ,यदुक्तं"जइविहु सम्मुप्पाओ कस्सवि दठण निण्हवे हुआ । मिच्छत्तयमईआ तहावि ते वजणिजाउ।।२।।" इति, नन्वनायतनत्वे सति किंजायतां तासाम् ?, उच्यते, असेव्यत्वं, यदुक्तमावश्यके-"खणमवि न खमं काउं अणाययणसेवणं सुविहिआणं । जग्गंधं होइ वणं तग्गंधो मारुओ वाति॥१॥"त्ति, तथा च प्रयोगः-विवादाध्यासितं परतीर्थिकापरिगृहीतमपि श्वेताम्बरयतिप्रतिष्ठितमप्यव्यङ्ग्यमप्यहद्विम्ब सुविहितानामवन्धमनधिकारिपरिगृहीतत्वात् ,यदेवं तदेवं यथा मातङ्गपाटकान्तर्गतजैनमातङ्गगृहीतार्हचैत्यं,नहि परतीर्थिकापरिगृहीतमपि श्वेताम्बरयतिप्रतिष्ठितमप्यव्यङ्ग्यमपि मातङ्गपरिगृहीतार्हचैत्यं चतुर्मासकादिपर्वस्वपि कैश्चिदपि मातङ्गव्यतिरिक्तैर्वन्द्यते, अथ मातङ्गैर्वन्धमानत्वाद्वन्धमेव,न,एवं हि बोटिकादिमिर्वन्धमानत्वादन्यतीर्थिकपरिगृहीतार्हच्चैत्यस्यापि वन्द्यत्वप्रसंगः,सर्वसंगपरित्यागित्वेन च यतीनां प्रतिमापरिग्रहेऽनधिकारित्वमेव, तथा च तत्परिगृहीता अर्हत्प्रतिमा अवन्द्या एवेति सिद्धम् , अत्र च विस्तरः प्रद्युम्नाचार्यपक्षतक्षकश्रीजिनपतिसूरिकृतवादस्थलेभ्योऽवसेय इत्यादिना संगमकोऽपि शकसामानिकत्वाद्विमानाधिपतिर्भविव्यतीतिभ्रान्त्या आक्षेपपरिहाराभ्यां काचपिच्यं विरचितं तदपि निरस्तं बोध्यं, मुख्यविमानाधिपतितया मिथ्यादृष्टेरुत्पत्तेरसंभवात् , तच्चानन्तरमेवागमानुगतयुक्त्या व्यक्तीकृतमिति,किंच-संदेहदोलावल्या "तथा च प्रयोगो-विवादाध्यासितं परतीर्थकापरिगृहीतमपीत्याद्यनुमानैर्यन्मातङ्गपरिगृहीतमर्हच्चैत्यं दृष्टान्तीकृतं तत्किमागमसिद्धं लोकसिद्धं वा?, उभयथापि खरविषाणकल्पं, यतो मातङ्गपाटकेऽर्हच्चै त्यमित्यागमे नोक्तं, लोकेऽप्यदृश्यमानं, किंच-युक्त्याऽप्यक्षम, यदि मातङ्गो मिथ्यादृष्टिस्तर्हि अर्हचैत्यपरिग्रहो न संभवति, प्रयोजनाभावात् , सम्यग्दृष्टिश्चेत्तर्हि अशुचिलिप्तपादपुरुषवत् मातङ्गोऽपि तदाशातनाभीत्या जिनप्रतिमां न स्पृशति,किंच MakawakOUGHDOHOROUGk ॥२०७॥.
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy