________________
K
श्रीप्रवचनपरीक्षा ८विश्रामे ॥२०८॥
मिथ्याग् न विमानपतिः
OHOROSHOGHORGOOK
अनुखरतरमनालोच्यानुचितवक्तारो,यतः कादाचित्कापावित्र्यभाजः कुलजा अपि सम्यग्दृशः स्त्रियो जिनप्रतिमां न स्पृशन्तीति भणित्वाऽपि तथाविधापावित्र्यावस्थामापन्नानामस्पृश्योऽपि सम्यग्दृग् मातङ्गो जिनप्रतिमा स्पृशतीत्यसमअसं भणन् खगलपादुकामपि न वेत्ति, तथा समवसरणस्थितमहन्तमिव जिनप्रतिमामपि स्त्रियो न स्पृशन्तीति जिनदत्तेन निजकुलके भणितमिति खरतरमतविश्रामे दर्शितम् , एवं च सति कथं मातङ्गस्पर्शः प्रतिमाया युक्तः, अन्यथा भावजिनेऽपि तथाप्रसङ्गः, तेन नित्यचैत्येषु हि संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितिव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वेत्यादि विकल्पितं तदालजालकल्पम्, | एवं क्वाप्यनुक्तत्वादश्रुतत्वाच्च, तस्मादनादिसिद्धकल्पस्थितिरेव तावदियं यद्विमानाधिपतिर्मिथ्यादृष्टिनं भवत्येव, यच्चोक्तं-"देवहर| यमि देवा विसयविसमोहिआवि न कयावि" इत्यादि तच्च सम्यग्दृष्टरेव तथा स्वभावो, न पुनर्मिथ्यादृष्टेरपि, यतः-"पंचहिं ठाणेहिं जीग सुलहबोहियत्ताए कम्मं पकरिति, तं०-अरहंताणं वणं वदमाणे० विवक्तवबंभचेराणं देवाणं वणं वदमाणे"ति श्रीस्थानाङ्गे | (४२६) अहंदादिपतिव्यवस्थितानां देवानामर्हदादीनामिव वर्णवादो बोधिसुलभताहेतुर्भणितः, तत्र वर्णवादः देवानां 'अहदेवाण य सीलं विसयविसमोहिआवि जिणभवणे । अच्छरसाईहिं समं हासाई जेण न कुणंति ॥१॥'त्तिरूपः, सच सम्यग्दृशामेव बोध्यः, न पुनर्मिथ्यादृशामपि, तेषां वर्णवादे दूरे बोधिसुलभता, प्रत्युत सम्यक्त्वदूषणं, यदुक्तं-"शङ्काकालाविचिकित्सामिध्यादृष्टिप्र|शंसनम् । तत्संस्तवश्व पश्चापि, सम्यक्त्वं दूपयन्त्यमी ॥२॥” इति, ननु जिनप्रतिमासु तथाविधाध्यवसायो मिथ्यादृशामप्यनुमोदनाविषयो युक्त इति चेन्मैवं, इमा जिनप्रतिमा अर्हत इवाराध्या मोक्षदात्रीति सम्यग्बुद्धरविषयत्वात् , तथात्वे च मिथ्यादृष्टित्वासंभवात् , सम्यग्ज्ञानमिथ्याज्ञानयोरेकदैकत्रासमावेशात् , यदागमः-"जस्स णाणा तस्स अण्णाणा णत्थि, जस्स अण्णाणा तस्स णाणा
HOROROSHOGOOGHORE