SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मिथ्याग् न विमान भीप्रवचनपरीक्षा ८विश्रामे ॥२०६॥ पतिः | करणिज'मित्यादिपर्यायलोचनापुरस्सरं पुस्तकरत्नाद्धार्मिक व्यवसायं गृहणातीति विचार्यमाणं युक्तिमपि न सहते, न च युक्त्या | विचारणमयुक्तं,तस्या अप्यनुज्ञातत्वात् ,यदुक्तं-"तह(अह)वकखाणेअव्वं जहा जहा तस्स अवगमो होइ । आगमिययागमेणं जुत्तीगम्म तु जुत्तीए।।२॥"त्ति (९९१) पञ्चवस्तुके, यच्चौष्ट्रिकेण संदेहदोलावल्यादी 'एवं च सम्यग्दृष्टिभाविताः प्रतिमा एव ज्ञानदर्शन|चारित्ररूपभावहेतुत्वादायतनं, नेतरा इत्यायातं,द्रव्यलिङ्गिपरिगृहीतास्तु प्रतिमा न सम्यग्दृष्टिभाविताः,द्रव्यलिगिनां मिथ्यादृष्टि| त्वाद्, एतच्च किंचित्साधितं साधयिष्यते च इति कथमायतनं स्युः,ननु 'दबंमि जिणहराई'त्यनेनौधनियुक्तिवाक्येन प्रतिमानां द्रव्यायतनत्वमेवोक्तमितिचेत्सत्यं,किंतु सम्यग्दृष्टिभावितानामेव,नेतरासामामित्यवधार्यम् , अन्यथा दिगम्बरसंबन्धिजिनगृहप्रतिमा| नामपि द्रव्यायतनत्वं स्यात् , नन्वेवं तर्हि संगमकप्रायमहामियादृष्टि देवविमानस्थितसिद्धायतनप्रतिमा अपि नायतनमितिचेन्न, नित्य चैत्येषु हि संगमकवदभव्या अपि देवा मदीयमिदमिति बहुमानात् कल्पस्थितव्यवस्थानुरोधात्तदद्भुतप्रभावाद्वा न कदाचिदसमंजस[क्रियाः आरभन्ते, यदुक्तमागमे-"देवहरयम्मि देवा विसयविसमोहिआवि न कयादि । अच्छरसाहिपि समं हासकिड्डाइ पकरिंति ॥१॥"त्ति, किंच-चतुःषष्टिरपीन्द्रा देवाधिपतित्वेन महासम्यग्दृष्टित्वेन स्वस्वप्रतिबद्धसर्वसिद्धायतनशुद्धिविधानकप्रवणा एवेत्येतेषु । विजयमानेषु को नामात्महितैषी नित्यचैत्येप्यात्मविमानस्थत्वेन नीत्यतिक्रमणमारभते ?, मिथ्यादृष्टिभावितत्वं च चैत्यानां तत्प्रवतितासमञ्जसाचारकलुषितत्वं, तच्च शाश्वतप्रतिमानां नास्तीति ता भावग्रामत्वं न व्यभिचरन्त्येव,तथा चायतनमेव, आयतनभावग्रामयोरेकार्थत्वात , किंच-अत्यन्तमसंबुद्धाचार्यो भवान् यद्भक्तिचैत्यविचारमारभ्य नित्यचैत्यैर्व्यभिचारमुद्भावितवान् ,परं सोऽप्यागमनीत्याऽस्माभिनिराकृत इति, द्रव्यलिङ्गिपरिगृहीतानि तु चैत्यानि मिथ्यात्वकारणाचारकलुषितत्वादनायतनमेव, तथा च सति नित ॥२०६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy