________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥२०२॥
| विमानपतेः सम्यग्दृष्टि
IGOOGHOOutOUGHOLOR
बहूणं देवीण य अच्चणिजाओ इत्यादिप्रवचनवचनात् मिथ्यादृशोऽपिजिनप्रतिमां पूजयन्ति,अन्यथा बहुशब्दस्य वैयापत्तेरितिचेन्मैवं, मिथ्यादृपरिग्रहार्थ बहुशब्दस्यानुपादानात, किंत्वेकैकसिन् विमाने संख्यातयोजनात्मके संख्याता असंख्यातयोजनात्मके चासंख्याताः सम्यग्दृशो देवाः सन्ति ते च जिनप्रतिमापूजादिपरायणा एवेति बहुशब्दप्रयोगस्य साफल्यम् ,अन्यथा "सव्वेसिं देवाणं सव्वासि देवीणं अच्चणिजे" त्यादिपाठरचनाऽभविष्यत् , सा च नास्तीति बहुशब्देने प्रत्युत मिथ्यादृष्टयः परित्यक्ताः, ननु विमानाधिपतित्वेन यदा मिथ्याग् देव उत्पद्यते तदा तद्विमानगता जिनप्रतिमा मिथ्यागपि देवस्थित्या पूजयत्येवेति चेत्, मैवं, मिथ्यादृशां विमानाधिपतित्वेनोत्पादासंभवात् , विमानाधिपतिर्मिथ्यागपि स्यादित्यादिवचनस्य क्वाप्यागमेऽनुपलम्भात् , ननु शकसामानिकानामुपपातो निजनिजविमानेषु भणितः,यदागमः-"एवं खलु देवाणुप्पिआणं अंतेवासी तीसए णामं अणगारे पगइभद्दए जावविणीए छठंछठेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अह संवच्छराई सामण्णपरिआगं पाउणित्ता मासिआए संलेहणाए अप्पाणं झोसेत्ता सष्टिं भत्ताई अणसणाए छेदेत्ता आलोइअपडिक्कते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिजंसि दूसंतरिआए अंगुलस्स असंखेजइभागमिचाए ओगाहणाए सक्कस्स देविंदस्स देवरणो सामाणिअदेवत्ताए उववण्णे" इत्यादि यावत् "गोअमा! महिडिए जाव महाणुभावे, से णं तत्थ सक्कस्स विमाणस्स चउण्डं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं सत्तण्हं अणि पाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहुणं देवाण य देवीण य जाब विहरति"ति यावत् "सकस्स देविंदस्स देवरण्णो अवसेसा सामाणिआ देवाकेमहिडिआ तहेव सव्वं जाव एसणं"ति(१२९)श्रीभग० श०३उ०१,एवं निज र विमानेषूत्पत्तिभणनेन सामानिका विमाना
HOOKOROROROROIGrokola
॥२०२॥