SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२०१॥ HONGHOSHO यत एकेनापि पादन्यासेना संख्यात योजनकोटा कोटीर्व्यतिक्रामतश्चमरेन्द्रस्य कृतशरणोपयोगातिरिक्तस्थले चरमचरणन्यासस्याप्यसंभवः, कथमन्तरालवर्त्तिनस्तीर्थकरादयोऽपि शरणं भवेयुः ?, लोकेऽपि तथैव दृश्यमानत्वात् ननु शक्रेण 'नन्नत्थ अरिहंते वा अणगारे वा भाविअप्पणी' इत्येवोक्तं, न पुनः अरहंतचे आणि वेति तृतीयं पदं, तत्कथमिति चेदुच्यते, शक्रेणार्हदर्हच्चै त्ययोरभेदेनैव विवक्षणात् न चैतदयुक्तं 'धूत्रं दाऊण जिणवराण' मित्यागमवचनस्य संवादकत्वाद्, एवं चार्हचैत्यशब्देनार्हत्साधुव्यतिरिके वाच्ये सिद्धे जिनप्रतिमैवेति सिद्धं । अथ जीवाभिगमो यथा - ' तत्थ णं से उत्तरिल्ले अंजणपव्वए तस्स णं चउद्दिसिं चत्तारि णंदापुकरणीओ पं०, तं०- विजया वेजयंती जयंती अपराजिआ, सेसं तहेव जाब सिद्धाययणा, सव्वा चेइयघरवण्णणा णेअव्वा, तत्थ णं बहवे भवणवइवाणमंतरजोड़ सिअवेमाणिआ देवा चाउम्मासि पडिवएसु संवच्छरेसु अ अण्णेसु अ बहुसु जिणजम्मणनिक्खमणणाणुप्पायपरिणिव्वाणमाइएस अ देवकजेसु देवसमुदसु देवसमितीसु अ देवसमवायसु अ देवपओअणेसु अ एगंतओ सहिआ समवायगया समाणा पमुदितपकी लिआ अठ्ठाहिआओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" त्ति (१८४) श्रीजीवाभिगमसूत्रे अञ्जनगिरिपर्वतवर्णनाधिकारे, अत्र 'चेइअघरवण्णणा' इत्यत्र चैत्यगृहं - जिनप्रतिमागृहमेव, अर्हत्साधोस्तत्रासंभवात्, किंच-अत्र चातुर्मासिकसांवत्सरिकजिनजन्मादि दिवसेष्वञ्जनगिरिप्रभृतिष्वष्टाह्निकामहोत्सवं कुर्वाणाः प्रमुदिताः जिनप्रतिमापूजादिपरायणा भवनपत्यादयो देवास्तिष्ठन्तीत्यादिभणनेन भवनपत्यादयो देवा अपि सम्यग्दृष्टय एवोक्ता भवन्ति, मिथ्यादृशामुक्तदिवसेषु तथाविधानुष्ठानपरा - यणत्वासंभवाद्, एतेन मिथ्यादृशोऽपि देवा जिनप्रतिमां पूजयन्ति शक्रस्तवं च पठन्तीत्यादिप्रलपनेन मुग्धजनान् विप्रतारयन् लुम्पाको निरस्त एव बोध्यः, मिथ्यादृशोऽपि जिनप्रतिमां पूजयित्वा शक्रस्तवं पठन्तीति क्वाप्यागमेऽनुपलम्भात्, ननु बहूणं देवाणं ONGKONGHONGHONGKONGHOKHORSHE विमानपतेः सम्यग्दृष्टि त्वं ॥२०१॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy