________________
शिक्षासप्तके
चैत्य
श्रीप्रवचन-1
परीक्षा ८ विश्रामे ॥२०॥
शब्दार्थः
DOHORIGROOOOOOOOOOO
संभवति,यथा नमोऽत्थु णं अरहंताणं भगवंताणं आइगराणमित्यादौ वाकाराणामनुक्तिः,अन्यथा अरहंताणं वा भगवंताणं वा आइगराणं वेत्यादि पाठरचनाप्रसक्तेः, तस्मात्रयाणां भिन्नार्थत्वे सिद्धे अर्हचैत्यानि जिनप्रतिमा भण्यन्ते इति सिद्धं सूत्रत एव चैत्यशब्देन जिनप्रतिमेति, ननु यदि तीर्थकरवत्तीर्थकरप्रतिमाऽपि शरणं भवेत् तर्हि सौधर्मदेवलोक एव बहूव्यः सन्निहिता जिनप्रतिमाः सन्ति तासां शरणं विहाय कथमियदुरं श्रीमहावीरमेवोपेयिवान् ? यद्वा ज्योतिश्चके नन्दीश्वरादौ च तासां प्रतिमानां विद्यमानत्वात् ता एव कथं न शरणतया प्रपेदे इति मम विकल्पना कथं निरस्येति चेत् , सत्यं, शृणु पुष्करवरद्वीपधातकीखण्डसंबन्धिषु भरतैरावतेषु श्रीमहा| वीरसदृशा अष्टौ जिनेन्द्राः छद्मस्थाः, केवलिनोऽपि महाविदेहसंबन्धिनो बहवोऽर्हन्तः केवलमनःपर्यायावधिमन्तोऽतिशयर्धिभाजथान्येऽप्यनगाराः अनेककोटीसंख्याकाः सन्ति तान् विहाय जम्बूद्वीपवर्तिनं श्रीमहावीरचरणयोः शरणमुपागतश्चमरेन्द्र इत्यादिप्रतिबन्दीपर्यालोचनावाणप्रहता लुम्पकविकल्पना शकुनी शक्तिरहिता तत्क्षणादेव प्राणमुक्ता अस्पृश्येति बोध्यं, किंच-चमरेन्द्रस्योर्ध्वगमने शक्तिरपि तीर्थकरादिनिश्रयैव भणिता, निश्रा च हे श्रीवीरजिन! हे श्रीस्यूलभद्रसाधो! शक्रपराजितस्य मे शरणं त्वमेव भवेत्यादिवचोमिरहदहत्पतिमासाधुभिः सहान्योऽन्यं निवन्धप्रतिज्ञा भण्यते, एवंविधां च प्रतिज्ञां निर्माप्य यद्यन्यत्र क्वापि याति गतश्च तत्र शरणं लभते तर्हि निश्रायाः करणं विफलमेव स्यात् , शक्रेणाप्यर्हदादेः शरणं कृत्वाऽत्रागतो भविष्यतीति विचिन्तितं, |यदागमः-"णो खलु विसए चमरस्स असुरिंदस्स असुररण्णो अपणो अणिस्साए उर्दू उप्पतित्ता जाव सोहम्मो कप्पो, णण्णत्थ अरिहंते वा अणगारे वा भाविअप्पणो णिस्साए उड़े उप्पतंति जाव सोहम्मो कप्पोत्ति" श्रीभग० शत०४ उ०२,न पुनस्तद्वत् कापि शरणं गतो भविष्यतीति विचिन्तितं, तसादवसरविशेषमासाद्य यस्याईदादेय॑क्क्या यथा शरणं कृतं तथैव तत्रागत्य विश्राम्यति,
JOOHORORORDISRO
| ॥२०॥