________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१९८॥
श्रीजिनप्रतिमादिसिद्धिः
| फलमेतदसंगतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः॥१॥इति वचनादचेतनादपि चिन्तामण्यादेरभीष्टफलसिद्धिः, असिद्धिश्च सचेतनादपि कीटककोव्यादेरपि, तथा ज्ञानादिभाजोऽपि सिद्धतदाभमूककेवल्यादेरभीष्टश्रुतलाभादेरदर्शनं, दर्शनं च ज्ञाना. दिशून्यादपि पुस्तकप्रतिमादेः, अत एव श्रीसुधर्मखामिनाऽपि पश्चमाङ्गे पश्चपरमेष्ठिवत् “नमो बंभीए लिबीए"त्ति पदेन पुस्तकस्यापि नमस्कारः कृतः, अतो ज्ञानादिमत्वेन नोभयथापि नियमः, ननु भवतु पुस्तकं ज्ञानहेतुरध्यक्षत एव तथोपलम्भात, परं प्रतिमा | कस्येव दर्शनहेतुरिति चेदुच्यते, प्रतिमादर्शनाव सम्यक्त्वावाप्तिस्त्वार्द्रकुमारादेरिख, उक्तं च-"जा सम्मभाविआओ पडिमा इअरा न भावगामो उ । भावो जइ नस्थि तहिं नणु कारण कजउवयारो ॥१॥" इतिश्रीबृहत्कल्पभाष्ये, व्याख्या-सम्यग्भाविता:| सम्यग्दृष्टिपरिगृहीताः प्रतिमास्ताः भावग्राम उच्यते, नेतरा:-मिथ्यादृष्टिपरिगृहीताः, आह-सम्यग्भाविता अपि प्रतिमास्तावद्
ज्ञानादिभावशून्यास्ततो यदि ज्ञानादिरूपो भावः स तत्र नास्ति ततस्ताः कथं भावग्रामो भवितुमर्हन्ति ?, उच्यते, ता अपि दृष्ट्वा | भव्यजीवस्यार्द्रकुमारादेरिव सम्यग्दर्शनाबूदीयमानमुपलभ्यते ततः कारणे कार्योपचार इतिकृत्वा ता अपि भावग्रामो भण्यन्ते, | इतिश्रीबृहत्कल्पवृत्ती, किंच-यदुक्तं पुस्तकात् ज्ञानलाभोऽस्माकमध्यक्षस्तर्हि प्रतिमादर्शनतोऽपि दर्शनलाभोऽसादृशामध्यक्षसिद्ध एवेत्यलं विस्तरेणेतिगाथार्थः ।।१५१।। अथ सिंहावलोकनन्यायेन किंचिद्वक्तुमुपक्रम्यते, तत्र द्वारगाथात्रिकमाहचेइअसदत्य १ मुणिप्पमुहाणं निययकिरिअउवओगो। जिणपडिमाणं २ आणंदप्पमुहाणंपि उवहाणं३॥१५२॥ संखेववित्थराणं सुसंगई नामसुइआणंपि४। अण्णह अइप्पसंगो लोअपसिद्धो महादोसो ५॥१५३॥ जं पुण कुवखिआणं महानिसीहंपि होइ अपमाणं । तत्थ निमित्तं ६ लंपग हिओवएसपि मित्तीए७॥१५४॥
HOOHOROGRokakkar
॥१९८॥