________________
श्रीजिनप्रतिमादिसिद्धिा
श्रीप्रवचन- यथा ज्ञानदर्शनयोः तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थ वा निमन्त्रणप्रतिश्रवणादिमिर्जा
परीक्षा नदर्शनातिक्रमादयोऽप्यायोज्या इति श्रीस्थानां वृत्ती, अत्र यथा भावश्रुतहेतुत्वेन पुस्तकं द्रव्यश्रुतमुक्तं तथा भावार्हत्परिज्ञान८ विश्रामे | हेतुत्वाजिनप्रतिमाऽपि दर्शनोपग्रहहेतुत्वेन दर्शनोपकरणं, तदुपघातायोद्यतस्यातिक्रमादयः संक्लेशाः सम्यक्त्वहानिकरा भवन्तीति ॥१९७॥
|दर्शितम् , एवं रजोहरणमुखवस्त्रिकादिकं चारित्रोपकरणं बोध्यं, तदुपघाते चारित्राद्युपहतिरिति, नहि कारणमन्तरेण कार्योत्पत्तिरिति पर्यालोच्य जिनप्रतिमा दर्शनहेतुर्योध्या, अत एव बृहत्कल्पभाप्येऽपि-"तित्थयरा १ जिण २ चउदस ३ मिन्ने ४ संविग्ग ५ तह असंविग्गे ६ । सारूविअ ७ वय ८ दंसण ९ पडिमाओ १० भावगामा उ ॥२॥" इत्यादि प्रागुक्तं बोध्यं, नच जिनप्रतिमादर्शनाद्यभावेऽपि केपांचित्सम्यक्त्वलाभदर्शनाव्यभिचारो भविष्यतीति शङ्कनीयं, मिन्नभिन्नभव्यपरिपाकयोग्यतया प्रतिभव्यं सम्य| क्त्वहेतूनां वैचिच्यात् , तथात्वे च कस्यचित्तीर्थकृत कस्यचिद्गणधरः कस्यचित्साधुः कस्यचिजिनप्रतिमादिकमित्येवं नैयत्येऽपि तद्व्यतिरिक्तेषु विपरीतश्रद्धानप्ररूपणाद्यभावात्तेषां कारणत्वमेव, वैपरीत्यश्रद्धानादौ च त एव सम्यक्त्वनाशहेतवः, तस्मानियतान्यपि | कारणानि नियतेषु कार्येषु फलोपहितयोग्यतया शेषेषु च स्वरूपयोग्यतया कारणानि भवन्ति, तदस्त्वेतावता तेपामकारणत्वम् ,
अन्यथा तीर्थकृतोऽपि सम्यक्त्वादिहेतवो न भवेयुः, तीर्थकरमन्तरेणापि गौतमप्रतिबोधितानां सम्यक्त्वलाभः प्रतीतः, किंच-लुम्पहकमते पुस्तकस्याप्यकारणत्वापच्या स्वगलपादुका, नहि पुस्तकादेव सर्वेषां ज्ञानादिलाभः, तत्रापि व्यभिचारदर्शनं प्रतीतमेवेति जिन
प्रतिमा जिन इव सम्यक्त्वहेतुः संपन्ना, एतेन जिनप्रतिमा तावदचेतना ज्ञानादिशून्या च कथमभीष्टार्थसिद्धये स्थादित्यपि दुर्वाक्यं निरस्तं, यतो न ह्यभीष्टार्थसिद्धौ सचेतनत्वं ज्ञानादिमत्त्वं वा प्रयोजकम् , उभयत्रापि व्यभिचारात् , तथाहि-"अप्रसन्नात्कथं प्राप्यं,
OMGORSROOOOOOKOROLOजान
॥१९७॥