SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥ १७९ ॥ HONGKONGGONG0%D0% | पडिमा वण्णपमाणेहि निअएहि ||१|| "न्ति इत्याद्युपोद्घातप्रवचनवचनाद्भरतकारितानां जिनप्रतिमानां सिद्धौ तजन्यं फलमपि महानुभावमेव सिद्ध्यति, महानुभाव पुरुषप्रवृत्तिविषयत्वाद्यनुमेयत्वात्, तदनुमानं यथा - जिनभवनादिनिर्मापण मैहिकपारत्रिकापाय पराकरणपूर्वकाभिमतसंपत्संपादकं बहु वित्तव्ययायासान्यतरसाध्यत्वे सति धर्मबुद्धिपूर्वकमहापुरुषप्रवृत्तिविषयत्वात् तीर्थक्रदुपात्तचारित्रवद्, अत्रार्थे सिद्धान्तोऽपि यथा “तिहिं ठाणेहिं जीवा अप्पाउत्ताए कम्मं पकरेंति, तं०-पाणे अइवाइत्ता भवति मुसं वतित्ता भवति तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिला भेत्ता भवति "त्ति । श्रीस्थानाङ्के त्रिस्थानके प्रथमोदेशके (१२५) एतस्येकदेशो यथा तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्- 'एतदिह भावयज्ञः सङ्गृहिणो जन्मफलमिदं परमम् । अभ्युदयान्युच्छिच्या नियमादपवर्गबीज || १ ||" मिति श्रीस्थानाङ्गवृत्तौ, तथा शाश्वताशाश्वतानि तीर्थान्याचार्यादींश्च प्रत्यभिमुखगमन संपूजनादिना सम्यक्त्वनैर्मल्यमप्युक्तं, तथाहि - तित्थयराणं भगवओ पत्रयण पावयणि अइसइड्रीणं । अहिगमणनमणद रिसण कित्तण संपूअणा थुणणा ||१|| जम्म भिसेअनिक्खमणचरणनाणुप्पयाण निव्वाणे । दिअलोअभवणमंदरनंदीसरभोमनगरेसु || २ || अठ्ठावयमुञ्जिते गयग्गपयए अ धम्मचक्के अ । पासरहावत्तणयं चमरुप्पायं च वंदामि ||३|| (३३३-२) इतिश्रीआचाराङ्गनिर्युक्तौ तद्वृत्तिर्यथा “दर्शनभावनार्थमाह- 'तित्थय' गाहा, तीर्थकृतां भगवतां प्रवचनस्य - द्वादशाङ्गस्य गणिपिटकस्य तथा प्रावचनिनाम् - आचार्यादीनां युगप्रधानानां तथाऽतिशयिनाम् ऋद्धिमतां केवलिमनः पर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमर्षौषध्यादिप्राप्तद्धनां यदभिमुखगमनं गत्वा च नमनं नत्वा च दर्शनं तथा गुणोत्कीर्त्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनया नवरं भाव्यमानया दर्शनशुद्धिर्भवतीति । किंच - " जम्माभिसेअ" गाहा " अहावय" गाहा, AGHONGKONGHO श्रीजिनभवनादिसिद्धिः ॥ १७९ ॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy