________________
पाव
धीप्रवचन
परीक्षा ८ विश्रामे ॥१७५॥
श्रीजिनप्रतिमापूजादिसिद्धिः
FOTOHOROSOTORomara
मणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् “सुहुमरयतदीहवालाओ" इति सूक्ष्माः-लक्ष्णारजतमया दीर्घा वाला येषां तानि तथा "संखंककुंददगम्यस्यमयमहिअफेणपुंजसन्निकासाओ धवलाओ चामराओ" इति प्रतीतं, चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति, 'तासि णमित्यादि, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे कुण्डधारप्रतिमे संनिक्षिप्ते तिष्ठतः, ताश्च सव्वरयणामईओ अच्छाओ इत्यादि प्राग्वत् , 'तत्थ ण'मित्यादि तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं चन्दनकलशानामष्टशतं भृङ्गाराणामष्टशतमादर्शानां | अष्टशतं स्थालीनां अष्टशतं पात्रीणां अष्टशतं सुप्रतिष्ठानां अष्टशतं मनोगुलिकाना-पीठिकाविशेषरूपाणां अष्टशतं वातकरकाणां | अष्टशतं चित्राणां रखकण्डकानां अष्टशतं हयकण्ठानां अष्टशतं गजकण्ठनां अष्टशतं नरकण्ठानां अष्टशतं किन्नरकण्ठानां अष्टशतं किंपुरुषकण्ठानां अष्टशतं महोरगकण्ठानां अष्टशतं गन्धर्वकण्ठानां अष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणां अष्टशतं माल्यचङ्गेरीणां अष्टशतं चूर्णचङ्गेरीणां अष्टशतं गन्धचङ्गेरीणां अष्टशतं वस्त्रचङ्गेरीणां अष्टशतमाभरणचङ्गेरीणां अष्टशतं लोमहस्तचङ्गेरीणां, लोमहस्तका-मयूरपिच्छपुअनिकाः, अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां, मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि, | अष्टशतं चूर्णपटलकानाम् ,एवं गन्धवस्त्राभरणसिद्धार्थकलोमहस्तपटलकानामपि प्रत्येकं २ अष्टशतं द्रष्टव्यम् , अष्टशतं सिंहासनानामटशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोयगसमुद्गकानामष्टशतं तगरसमुद्गकाना
मष्टशतमेलासमुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिङ्गुलिकसमुद्गकानामष्टशतं मनःशिलासमुद्कानामष्टशतमजनसमुद्कानां, all सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टव्यानि, अष्टशतं ध्वजानामित्यादि श्रीजीवावृत्तौ। एवंविधराजचिहयुक्ताः
SOHOROHOROHOROGorakooाव
॥१७॥