SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा विश्रामे ॥१७॥ श्रीजिननतिमापूजा| दिसिद्धिः SOHOROROGROHORRORROन पडिमाणं पुरओ अहसयं घंटाणं अहसयं चंदणकलसाणं अहसयं भिंगाराणं आयंसकाणं थालाणं पातीणं सुपतिष्ठगाणं मणुगुलि गाणं वातयरयाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं 5 असयं तेल्लसमुग्गाणं जावधूवकडुच्छुगाणं सबिखित्तं चिकृति इतिश्रीजीवाभिगमसूत्रे, एतद्वत्तिर्यथा-'तत्थ ण'मित्यादि, तत्र देवच्छन्दके अष्टशतम्-अष्टाधिकं शतं जिनपतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति, | 'तासि णं जिणपडिमाण'मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततलपादतलानिअङ्कमया-अहरनमया अन्तः-मध्ये लोहिताक्षरत्नमतिसेका नखाः कनकमय्यो जङ्घाः कनकमयानि जानूनि कनकमया उरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभयः अरिष्ठरत्नमय्यो रोमराजयः तपनीयमयाश्चचुकाः-स्तनाग्रभागाः तपनीयमयाः श्री| वत्साः शिलामवालमया विद्रुममया ओष्ठाः स्फटिकमया दन्ताः तपनीयमय्यो जिवाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तोलोहिताक्षरत्नप्रतिसेकाः अङ्कमयान्यक्षीण्यन्तर्लोहिताक्षप्रतिसेकानि रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः अरिष्ठ| रत्नमयानि अक्षिपत्राणि रिष्ठमय्यो भ्राः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्ष|घटिकाः तपनीयमय्यः केशान्तकेशभृमयः केशानामन्तभूमयः केशभृमयश्चेतिभावः रिष्ठमया उपरि मूर्घजाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधरा प्रतिमा हेमरजतकुन्देन्दुप्रकाशं सकोरण्टमाल्यदामधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, 'तासि णं जिणपडिमाण मित्यादि, तासां जिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोः द्वे द्वे चामरधरप्र.तेमे प्रज्ञप्ते, "चंदप्पभवयरवेरुलिअनाणामणिकणगरयणखचितचित्तदंडाओ" इति चन्द्रप्रभः-चन्द्रकान्तो वजं वैड्यं च प्रतीते चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नाना पारकाप ॥२७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy