SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा ८ विश्रामे ॥१७२॥ श्रीजिनप्रतिमापूजादिसिद्धिः KOoOOOOOOOOOK न्यालिखति, आलिख्य 'कयग्गाहगहिमित्यादि मैथुनप्रथमसमारम्मे मुखचुम्बनाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं कच-1 ग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन al कुसुमेन-कुसुमसमूहेन पुष्पपुञ्जोपचारकलितः पुष्पपुञ्ज एवोपचारः-पूजा पुष्पपुंजोपचारस्तेन कलितं-युक्तं-करोति, कृत्वा च 'चंद- |प्पहवइरवेरुलिअविमलदंड' चंद्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा तं, काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुंदुरक| तुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुंदुरुष्कतुरुष्कधूपगन्धोत्तमानुविधा प्राकृतत्वात् पदव्यत्ययस्तां धूपबत्ती विनिर्मु|श्चन्तं वैडूर्यमयं धृपकडुच्छुगं प्रगृह्य धूपं दत्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं | मस्तके कृत्वा प्रयतः 'अहसयविसुद्धगंथजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इतिभावः, यो ग्रन्थः शब्दसंदर्भस्तेन युक्तानि | विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः तथाविधदेवलब्धिप्रभाव एषः, | संस्तौति, संस्तुत्य वाम जानुमश्चति-उत्पाटयति, दक्षिणं जानु धरणितले 'निवाडेइति निपातयति लगयतीत्यर्थः, त्रिकृत्वः-त्रीन् वारान् मर्दानं धरणितले 'नमेइति नमयति, नमयित्वा चेपत्प्रत्युन्नमयति, प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ संहरति-संकोचयति संहृत्य करतलपरिगृहीतं शिरस्यावर्त मस्तकेऽञ्जलिं कृत्वा एवमवादीत्-'नमोत्थुग'मित्यादि, नमोस्तु णमिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामईन्तीति अईन्तस्तेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , 'छठीविभत्तीऍ भण्णइ चउत्यी' इति प्राकृतलक्षणात् , ते चाहन्तो नामादिरूपा अपि सन्ति अतो भावार्हत्प्रतिपच्यर्थमाह-भगवद्भय इत्यादि श्रीजी वृ०॥अथ यथा घटमानयेत्यादिवाक्यान्येव स्वत एव गृहीतसंकेतकानां खपाच्यविषयकज्ञानजनकानि तथा जिनप्रतिमानामाराध्यत्वं जिनप्रतिमा एव तथाविधसं OaYOHOROHOROook ॥१७२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy