SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१७॥ HONGHORIGHCHANCHIGHOSHO |च पुस्तकरत्नमुत्सङ्गादावितिगम्यते मुञ्चति, मुक्त्वा विघाटयति,विघाव्य अनुप्रवाचयति' अनु-परिपाट्या प्रकर्षेण-विशिष्टार्थावगम- श्रीजिनप्ररूपेण वाचयति, वाचयित्वा धार्मिक-धर्मानुगतं व्यवसायं व्यवस्थति, कर्तुममिलपतीतिभावो, व्यवसायसभायाः शुभाध्यवसाय तिमापूजानिबन्धनत्वात् क्षेत्रादेरपि कर्मक्षयोपशमादिहेतुत्वाद् , उक्तं च-"उदयक्खयक्खओवसमोवसमावि जयं च कम्मुणो भणिआ। दव्वं दिसिद्धिः खित्तं कालं भवं च भावं च संपप्पे ॥१॥"ति, धार्मिकं च व्यवसायं व्यवसाय पुस्तकरत्नं प्रतिनिक्षिपति, प्रतिनिक्षिप्य सिंहासना|दभ्युत्तिष्ठति, अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्गच्छति. विनिर्गत्य यत्रैव व्यवसायसभायाः एव पूर्वा नन्दा पुष्करणी तत्रैवोपागच्छति, उपागत्य नन्दापुष्करणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, प्रविश्य पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति-मध्ये प्रविशतीतिभावः, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्यैकं महान्तं श्वेतं रजतमयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिसमानं भृङ्गारं गृह्णाति, गृहीत्वा यानि तत्रोत्पलानि पद्मानि कुमुदानि नलिनानि यावच्छतपत्रसहस्रपत्राणि तानि गृह्णाति, गृहीत्वा नन्दातः पुष्करणीतः प्रत्युत्तरति, प्रत्युत्तीर्य यत्रैव सिद्धायतनं तत्रैव प्रधारितवान् गमनाय, 'तए ण'मित्यादि ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवाराः अग्रमहीष्यः तिस्रः पर्षदः सप्तानीकानि सप्तानीकाधिपतयः पोडश आत्मरक्षकदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्च देव्यश्च अप्येकका उत्पलहस्तगताः अप्येकका पद्महस्तगताः अप्येकका कुमुदहस्तगताः एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्रहस्तगताः क्रमेण प्रत्येकं वाच्याः विजयं देवं पृष्ठतः २ परिपाट्येतिभावः अनुगच्छन्ति, 'तए ण'मित्यादि, ततस्तस्य विजयस्य देवस्य बहव ॥१७॥ आमियोग्या देवा देव्यश्च अप्येककाः चन्दनकलशहस्तगता अप्येकका भृङ्गारहस्तगताः अप्येकका आदर्शहस्तगता एवं स्थालीपात्र-all GroxOTOHorow.GOOHOROO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy