SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन चारणाधिकारः परीक्षा कुर्वन्ति, अथ तथैव तस्य जीतकल्प इतिचेत्सत्यं, सिद्धा तर्हि तथाविधसाधूनां चैत्यनमस्कृति तकल्पत्वेन यथा तथा तदृष्टान्ते८ विश्रामे | नान्येषामपि साधूनां जिनप्रतिमानमस्कृतिः प्रत्यहं जीतकल्प इति चारित्राराधनवत् तदाराधनमपि मोक्षाङ्गं संपन्नम् , अथ नन्दी॥१६३॥15श्वरादिचैत्यनमस्कृत्यैव तल्लन्धिपरीक्षेति द्वितीयो विकल्पस्तर्हि अनवरतं षष्ठाष्टमादितपसापि या लब्धिः समुत्पन्ना साऽपि नन्दी श्वरादिगतजिनप्रतिमावन्दनसामर्थ्यजनिका सिद्धा, तत्सिद्धौ च चारित्रावाप्तिवत्तत्सामर्थ्यावाप्तिरपि पुण्यप्रकृतिजन्या तजनिका चेति संपन्नं लुम्पकमतं निराश्रयमिति । किंच-लुम्पकमताभिप्रायेण विद्याचारणादयः समुत्पन्नलब्धयो नन्दीश्वरादौ चैत्यानि नम| स्कुर्वन्ति, आगताश्चातत्यान्यप्यशाश्वतानि चैत्यानि नमस्कुर्वन्ति, पश्चाचालोच्य चारित्राराधका भवन्ति, न पुनरन्यथापि, अन्यथा चैत्यनमस्कृतेरसंभवात् , यतो न चैत्यनमस्कृत्यर्थ केनापि बलवत्ता प्रेरिता न वा लज्जया तत्परित्यागाशक्ताच, किंतु निजश्रद्धयैवेति, यद्यपि 'किंच लुम्पकमताभिप्रायेणे' त्याद्यनतरोक्तं लुम्पकस्य गलपादुकाकल्पमपि नास्माकमभीष्टम् , अनागमिकत्वात् , तथाविधपरंपरानागतत्वात्तथाभिप्रायस्य तथापि तत्रैवं पृष्टव्यं-भो लुम्पक ! एवंविधवाग्रचना तत् स्वतः सिद्धा कुतश्चिच्छिक्षिता वा?, तत्र द्वितीयविकल्पस्त्वसंभव्येवाच्छिन्नपरम्परागतगुर्वभावात् , किंतु द्वितीयो (प्रथमो) वक्तव्यः, स च संमृछिमदर्दुरखापद्धतिरिव संज्ञिनां विचारणानुपयोगीत्यलं विस्तरेण । अथ साध्व्युदाहरणं तु साधूदाहरणान्तर्भूतमेव बोध्यं, तदनुयायित्वात् , तथा भृगुकच्छे द्वीपान्तरागतेन केनचिन्मिथ्यादृशा वणिजा रूपवतीः साध्वीनिरीक्ष्य तदपहरणाय कपटश्रावको जातः, पश्चात् ताः विश्वास्य चलनावसरे वस्त्रादिनिमित्तं निमत्रिताः साध्व्यः, पण्यभृतपोतपार्श्वे समानीयोक्तवान्-पोतमध्ये जिनपतिमाः सन्ति ताः नमस्कुरुत, साव्यश्च सरलामिप्रायत्वात् पोतमध्ये चैत्यनमस्कृत्यर्थमारूढाः, तेन च पोतं जलमध्ये प्रवाह्य ता द्वीपान्तरं नीता इत्यादि निशीथभाष्य
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy