SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१६२॥ चारणा धिकार काoxoratDIYODHHHOROOKG लब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीति आगमनं द्वाभ्यां गमनं त्वेकेनैवेति इति भग टीका, न चात्र चैत्यशब्देन जिनप्रतिमा न व्याख्याताऽतः कथं तनिर्णय इति शङ्कनीयं, 'ग्रन्थस्य ग्रन्थान्तरं टीके तिवचनादन्यत्र बहुषु स्थानेषु तथाव्याख्यानात् , किंचचैत्यशब्देन लुम्पकविकल्पितसाध्वाद्यर्थानमिधायकत्वेन जिनप्रतिमाभिधायकत्वेन च सूत्रपदैरेव दर्शितत्वात् नात्र शङ्कालेशोऽपीति, अत्र चालोचना लब्ध्युपजीवनहेतुका भणिता, न पुनर्जिनप्रतिमावन्दनादिहेतुका, साऽप्यालोचनाऽल्पविराधनाजन्या मिथ्यादुष्कृतमात्ररूपा, न पुनर्गुरुसमक्षतपःप्रतिपत्तिरूपा,अन्यथा ऊर्ध्वलोकसमुद्रादौ सिद्धिगमनासंभवेन "चउरुङ्कलोए अदुवे समुद्दे, तओ जले | | वीसमहे तहेव । सयं च अड्डत्तर तिरिअलोए, समएण एगेण य सिज्झई धुवं ॥१॥ (१४२७*) इतिश्रीउत्तराध्ययनाद्यागमबाधा | स्यात् , तत्र च सिद्धिगमनं लब्ध्युपजीवनेन चैत्यादिनमस्कृत्यर्थं गतानां गच्छतां वा साधूनामेव स्यात् , न च प्रयोजनान्तरमेव किंचित्कल्पनीयं, कार्याकारणानुमानाच्चैत्यादिनमस्कृतिव्यतिरिक्तं किमपि कार्य कृतं नास्ति, तेन तदर्थमेव लब्धिमुपजीव्य गमनं बोध्यं, किंच-प्रयोजनान्तरकल्पनायामपि यदि चैत्यनमस्कृतिः साधूनामकल्प्या सावद्या वा स्यात् तत्र गतानामपि साधूनां चैत्यनमस्कृतेरसंभवात् , नहि प्रयोजनान्तरगतोऽपि साधुरकल्प्यसावद्यानुष्ठानपरो भवेत् , अतिप्रसङ्गात् , लुम्पकस्यापि तथा कर्त्तव्यतापत्तेश्च, एतेन तत्र चैत्यवन्दनाप्रभवपातकस्यालोचनं भणितमिति कुवचनं ब्रुवाण एव लुम्पको निरस्तो बोध्यः, तत्र तद्विकल्पितवचनावकाशस्यासंभवात् , चैत्यपरिपाट्यर्थमेव तद्मनस्योपलभ्यमानत्वात् , ननु लब्धौ समुत्पन्नायां तल्लब्धिपरीक्षानिमित्तमेव | नन्दीश्वरादौ गमनं जङ्घाचारणविद्याचारणानां, न पुनः केवलं चैत्यवन्दनार्थमेव तत्र गननमितिचेदहो भ्रान्तत्वं लुम्पकस्य, यतः तत्र गमनेन लब्धिपरीक्षा उत चैत्यनमस्कृत्या वा?, आद्य गत्वैवायान्ति किमर्थं तवाभिप्रायेण पापहेतुमपि चैत्यनमस्कृतिमपि
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy