SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चारणाधिकार श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१६॥ DOHOOHO OHONOROGorakooks एतद्वत्तिदेशो थथा-'करण'मित्यादि, तत्र चरणं-गमनमतिशयवदाकाशे एपामस्तीतिचारणाः, 'विजाचारणति विद्या-श्रुतं तच्च पूर्वगतं तत्कृतोपकाराचारणा विद्याचारणाः,'जंघाचारण'त्ति जङ्घाव्यापारकृतोपकाराश्चारणाः जङ्घाचारणाः, इहाथै गाथा:-अतिसयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि ॥१॥ एगुप्पाएग गओरुअगवरंमि उ तओ |पडिनिअत्तो। बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥२॥ पढमेणं पंडगवगे बीउप्पाएग गंदणं एइ । तइउप्पाएण तओ इह जंघाचारणो एइ ॥३॥ पढमेण माणुसोत्तरनगंमि.नंदीसरं च बीएणं । एइ तओ तइएणं कयचेइअवंदणो इहयं ॥४॥ पढमेण णंदणवणं बीउप्पाएण पंडगवर्णमि । एइ इहं तइएणं जो विजाचारणो होइ॥२॥"त्ति, 'तस्सणंति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्यया च पूर्वगतश्रुतविशेषरूपया करणभूतया 'उत्तरगुणलद्धी'ति उत्तरगुणाः-पिंडविशुद्ध्यादयः, तेषु चेह प्रक्रमात् तपो गृह्यते, ततश्च उत्तरगुणलब्धि-तपोलब्धि क्षममाणस्य-अधिसहमानस्य, तपः कुर्वत इत्यर्थः,'कथं सीहा गईत्ति कीदृशी शीघ्रा गतिः-गमनक्रिया 'कहिं सीहे गतिविसए'त्ति कीदृशः शीघ्रो गतिविषयः, शीघ्रत्वेन तद्विषयोपचाराच्छीघ्र उक्तः, गतिविषयोगतिगोचरः, गमनाभावेऽपि शीघ्रगतिगोचरभृतं क्षेत्रं किमित्यर्थः, 'अयं ण'मित्यादि अयं जंबुद्वीप एवंभूतो भवति, ततश्च 'देवे | 'मित्यादि 'हव्यमागच्छेजा' इत्यत्र यथा शीघ्रा अस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः, 'सेणं तस्स ठाणस्सेत्यादि, अयमत्र | भावार्थो-लब्ध्युपजीवनं किल प्रमादः, तत्र चासेवितेऽनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधना फलमिति, यहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेनागमनं चैकेन, जङ्घाचारणस्य तु गमनमेकेनागमनं च द्वयेनेति, तल्लन्धिखभाAlवाद. अन्ये त्वाहा--विद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवतीत्येकेनागमनं, गमने तु न सथेति द्वाभ्यां, जसाचारणस्य तु GHOSHOKakorakookOTOHOOd | ॥१६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy