________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१४८॥
पदमात्रव्याख्याने प्रतिमासिद्धि
HOOHONGKOOOOO
जइणो विधाण वेगत्थं ६॥२॥ जीवाणमजीवस्स य जईण विवस्स वेगओसमयं ७। जीवाणमजीवाण य जईण पडिमाण वेगत्थंदा ॥३॥ (विशे० २८७४-५-६) इत्यादि, अत्र मतिश्रुतज्ञानावरणक्षयोपशमपूर्वकमिथ्यात्वमोहनीयकर्मक्षयोपशमहेतुक एव जिन
प्रतिमाविषयको भावनमस्कारो भणितः, एवं च सति ये त्वजीवत्वादिहेतुना जिनप्रतिमाविषयं नमस्कारं न मन्यन्ते ते ह्यज्ञानावृता al मिथ्यात्वोदयिनः स्वत एव सिद्धाः, तसादास्तामर्हदादिनिक्षेपविचारो, नम इति पदमात्रस्यापि व्याख्याने जिनप्रतिमा आराध्यत्वेन
सिद्ध्यति, एवमर्हनिक्षेपेऽपि बोध्यं, ननु नामादिनमस्कारेष्वपि भावनमस्कार एव शोभनस्तथाऽहन्नपि भावाईन्नेव शोभनो नापभारेऽपीति चेन्मैवं, स्थापनाहतोऽवश्यं शोभनत्वे सिद्धे एव भावनमस्कारस्य शोभनत्वसिद्धः, यतो “जीवमजीवे असु भंगेसु होइ
सव्वत्थ"त्ति प्राग् प्रदर्शितनियुक्तिवचनाजिनप्रतिमाविषयकनमस्कारो दर्शनमोहनीयक्षयोपशमादेव भणितः, स्थापनार्हतश्चाशोभनत्वे कथं तद्विपयकनमस्कारस्यापि शोभनत्वमिति स्वयमेव पर्यालोच्यं, नन्वस्तु स्थापनाईतः शोभनत्वं, परं नामनमस्कारद्रव्यनमस्कारयोरिव नामाद्रिव्याहतोस्तु कथं शोमनत्वमिति चेद् , उच्यते, नम इतिपदं नैपातिकं,तस्य च नामत्वं तावदुपचरितमेव शुभा| शुभवस्तुविषयकं स्यात् , तेन नामनमस्कारस्य शोभनत्वेऽशोभनत्वे वा न काचित्क्षितिः, अर्हन्नितिपदं तु नामिकं वास्तवमेव, तेन तत्पदं स्ववाच्यविषयप्रवृत्तं शोभनमेव, तदुच्चारे श्रवणे वा तद्वाच्यस्याईतः सरणादिरेव स्याद् , अहंदादिसरणं तु महानिर्जराङ्गम् , आस्तामन्यद् ,नामगोत्रश्रवणेऽपि महाफलमौपपातिकादौ भणितम् ,एतच्च प्रकृतकुपाक्षिकस्यापि प्रतीतमेव,अन्यथा नमो अरिहंताणं | इत्यादिनमस्कारचतुर्विंशतिस्तवादिपरित्यागापचयापत्तिशक्तिप्रहतिविमुक्तप्राणो लुम्पको निश्वसितुमप्यशक्तो भवेद्, द्रव्यं तु किंचित् फलव्यभिचारि किंचिच्चाव्यभिचारीतिकृत्वा द्रव्यनमस्कारस्तावनिहवादीनां न शोभनः कथमपि, तेषां तेन भावनमस्काररूपफला
HOOTOOPOROUGHOUGHOUGH
॥१४८॥