SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भी प्रवचनपरीक्षा ८ विश्रामे ॥१४७॥ Bo ब्दस्य च निक्षेपः कार्यः, स च नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा यदुक्तं - " जत्थ (य) वि जं जाणिञ्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य न जाणिआ चउकयं निखिवे तत्थ || १ ||" (१) इतिश्री अनु०, तत्र नामनमस्कारो नम इति कस्यचिञ्जीवस्या - जीवस्य वा संज्ञा क्रियते, स्थापनानमो नम इति पुस्तकादौ लिखितवर्णानुपूर्वी, द्रव्यनमो निह्नवादेः, भावनमस्तूपयुक्तस्य सम्यदृष्टेरर्थात्तीर्थकरादिविषये बोध्यः, यदुक्तं - "निण्हादि दव्त्र भावोवउत्त जं कुज सम्मदिट्ठी उत्ति (८९०) श्रीनमस्कारनिर्युक्तौ अस्यार्थः- निहवादिद्रव्यनमस्कारो, नमस्कारनमस्कारवतोरम्यतिरेकात् निह्नवादिरपि द्रव्यनमस्कारो भण्यते, भावनमस्कारो यत्कुर्यादुपयुक्तः सम्यग्दृष्टिरित्यादि, एवं नामार्हन्नपि ऋषभादिजिनानामर्हनिति नाम, स्थापनार्हन् अर्हत्प्रतिमा, द्रव्यार्हन् अर्हञ्जीवः श्रेणिकादिः, भावार्हन् समवसरणस्थितः श्री सीमन्धरादिः, यदुक्तं - "नामजिणा जिणनामा ठवणजिणा पुण जिणिंदपडिमाओ । दव्वजिणा जिणजीवा भावजिणा समवसरणत्था ||१||" इत्येवं निक्षेपनिर्युक्तिविचारे भावनमस्कारं प्रतिपद्यमानो दर्शनमोहनीयादिक्षयोपशमेन हेतुनाऽर्हन् अर्हत्प्रतिमा इत्याद्यष्टस्वपि भङ्गेषु लभ्यते, ते चामी- अर्हन् १ अर्हत्प्रतिमा २ अर्हन्तः ३ अर्हत्प्रतिमाः ४ साधुरर्हत्प्रतिमा:- साधुरर्हत् प्रतिमा युगपद् द्वयं ५ साधुर्जिनप्रतिमाश्च ६ साधवो जिनप्रतिमा च ७ साधवो जिनप्रतिमाचेति ८, यदुक्तं"नाणावरणिजस्स उ दंसणमोहस्स तह खओवसमे । जीवमजीवे अहसु भंगेसुं होइ सव्वत्थ ||१|| ” ( ८९३) इतिनमस्कारनिर्युक्तौ, एतट्टीका यथा-मतिज्ञानश्रुतज्ञानावरणीयस्य सम्यग्दर्शनसाहचर्याद् ज्ञानस्य दर्शनमोहनीयस्य च क्षयोपशमेन साध्यते नमस्कारः, | केत्याह-जीवे अजीवे इत्याद्यष्टसु भङ्गेषु स्यात् सर्वत्र, तथाहि - " जीवस्स सो जिणस्स व १ अञ्जीवस्स उ जिणिंदपडिमाए २ । जीवाण जईगंपि अ ३ अजीवाणं तु परिमाणं ४ || १|| जीवस्साजीवस्स य जइणो बिंबस्स वेगओ समयं ५ जीवस्सऽजीवाण य MOHONGKONGHONGKONGYONGHONGK पदमात्रव्याख्याने प्रतिमा सिद्धिः ॥ १४७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy