________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥१४॥
पदमात्रव्याख्याने प्रतिमासिद्धिः
|OGROIGONOHOUGHDOHORORE
तेणेवेगपि पयं वक्खाणिज्जंतमेव सव्वमुहं । अणुओगदारविहिणा परुप्परं जेण साविक्खं ॥१४६॥
तेनैव कारणेनैकमपि पदम् , उपलक्षणाद्वाक्यादीनां परिग्रहः, व्याख्यायमानं सर्वमुख-सर्वतोमुखं स्यात् , एकस्यापि पदादेर्व्याख्याने क्रियमाणे सर्वस्याप्यमिलाप्यस्यार्थस्यावतारः स्यात् , तत्कथमित्याह-येन कारणेनानुयोगद्वारविधिना-अनुयोगद्वारसूत्रोक्तपद्धत्या परस्परं सापेक्षं श्रुतमात्रमपीतिगाथार्थः ।।१४६॥ अथ परस्परसापेक्षतायां हेतुमाहजमुवक्कमनिक्खेवाणुगमणएहिंपि होइ वग्वाणं । पयमित्तस्सवि सुत्ते सुत्तं पुणऽगेगहा पयडं ॥१४७॥
यद्-यस्मादुपक्रमनिक्षेपानुगमनयैश्चतुर्भिरनुयोगद्वारोक्ताराख्यानं सूत्रे पदमात्रस्यापि व्याख्यानं भवति, तत्र सूत्रं पुनरनेकधा-अनेकप्रकारं प्रकटं-प्रसिद्धं वर्तते, यतः किंचित्कालिकं किंचिदुत्कालिकं किंचिदङ्गरूपं किंचिदुपाङ्गरूपं किंचिच्छेदरूपं किंचित्प्रकरणरूपं, सूत्रस्वभावमेव किंचिनियुक्तिरूपं सूत्रार्थोभयस्वभावं-खव्याख्येयसूत्रापेक्षया व्याख्यानरूपं खव्याख्यापेक्षया च सूत्र| स्वभावम् , एवमन्यदपि यथासंभवं भाष्याद्यपि बोध्यमितिगाथार्थः ॥१४७।। अथैवं व्याख्याने प्रकृते किमागच्छतीत्याह
एवं सुअवाखाणे पुण्णेहिं पइपयंपि जिणपडिमा । पच्चक्खावि अआगमभणिआसुणिआय तित्थंमि ॥१४८॥ | एवं-प्रागुक्तविधिना श्रुतव्याख्याने प्रत्यक्षाऽपि-अच्छिन्नपरम्परामार्गपतितत्वेन तीर्थस्थाध्यक्षसिद्धापि जिनप्रतिमा प्रतिपदम्आस्तामङ्गादि श्रुतं 'नमो अरिहंताण'मित्यादिरूपं यत्पदं तादृशं पदं पदं प्रति प्रतिपदमागममणिता ज्ञाता स्यात् , किंः-पुण्यैःपुण्यभाग्भिः, न पुनरचेतनकल्पैरित्यर्थः, की-तीर्थे-अच्छिन्नपरम्परागते तीर्थे, तेन कुपाक्षिकादिसमुदाये तत्परिज्ञानाभावेऽपि न दोषः, तस्स तीर्थमहत्वात् , अथ प्रसङ्गतस्तद्व्याख्यानपद्धतेर्दिग्दर्शनं त्वेवं-तथाहि-जैनप्रवचने श्रुतमात्रस्याप्यादिस्त्रं सामायि
SHONGKONORONGHOUGHORA