SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ भी प्रवचनपरीक्षा ८ विश्रामे ॥१४२॥ SHOHOROONSOONSHONGKONGS काध्ययनं, तस्याप्यादौ 'नमो अरिहंताण' मित्यादि नवपदात्मको नमस्कारः, स चाष्टसंपदष्टषष्ट्यक्षर मयोऽङ्गोपाङ्गादि श्रुतादभनः, स चैवं-नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं। एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवइ मंगलं ॥ १ ॥ एवंविधनमस्कारस्याप्यादिपदं 'नमो अरिहंताणमिति' एतत्पदस्य व्याख्यानमुपक्रमादिभिश्चतुर्भिरनुयोगद्वारैः कर्त्तव्यं यतो जैनप्रवचनप्राकारस्य चत्वार्यनुयोगद्वाराणि भवन्ति, यदागमः - " चत्तारि अणुओगद्दारा पं० तं० - उवकसो निक्खेवो अणुगमो नओ अ"ति श्रीअनुयोगद्वारे, एषां निरुक्तिस्त्वेवम्-उपक्रमणं - दूरस्थस्य वस्तुनस्तैस्तैः प्रकारैः समीपनयनमुपक्रमः १ नियतं निश्चितं वा नामादिसंभवत्पक्षरचनात्मकं न्यसनं निक्षेपः २ अनुरूपं - सूत्रार्थाबाधया तदनुगुणं गमनं -संहितादिक्रमेण व्याख्यातुः प्रवर्त्तनमनुगमः ३ नयनम् - अनन्तधर्मात्मकस्य वस्तुनो नियतैकधर्मालम्ब नेन प्रतीतौ प्रापणं नयः ४, क्रमप्रयोजनं त्वेवं नानुपूर्व्यादिभिर्व्यासदेशमनानीतं शास्त्रं निक्षेपैनिर्क्षेप्तुं शक्यते १ न चौघनिष्पनादिनिक्षेपैरनिक्षिप्तमनुगन्तुं २ नापि सूत्राद्यनुगमेनाननुगतं नयैर्विचारयितुं शक्य ३ मित्यमीषां क्रमः, तत्रोपक्रमोऽपि लौकिकलोकोत्तरभेदाद्विधा, तत्राद्यो नामस्थापनाद्रव्यक्षेत्र कालभाव भेदात्षोढेत्यादि विस्तरजिज्ञासुनाऽनुयोगद्वाराद्यवलोक्यं १, तथा निक्षेपत्रिधा - ओघनिष्पन्नो १ नाम निष्पन्नः २ सूत्रालापकनिष्पन्नश्चेति ३, तत्रौघनिष्पन्ने सामान्यतो नाम श्रीआवश्यकश्रुतस्कन्ध इत्यादि १ | नाम निष्पन्ननिक्षेपे सामायिकाध्ययनमित्यादि २ सूत्रालापकनिष्पन्ननिक्षेपे तु स सति सूत्रे, सूत्रं तु सूत्रानुगमे, सूत्रानुगमस्त्वनुयोगमेदः, यतोऽनुगमो द्विधा - सूत्रानुगमः १ निर्युक्त्यनुगमन २, यदागमः - " से किं तं अणुगमे १,२ दुविहे पं, तं० - सुत्ताणुग मे १ निज्जुत्तिअणुगमे २"त्ति श्रीअनु०, तथा नियुक्त्यनुगमोऽपि त्रिविधः - निक्षेपनिर्युक्त्यनुगमः १ उपोद्घातनिर्युक्त्यनुगमः २ सूत्र स्पर्शिक निर्युक्य SIGHONGKONGHOSHOHONGKONGH पदमात्रव्याख्याने प्रतिमा सिद्धिः ॥१४२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy