________________
तीर्थाभाव:
श्रीप्रवचनपरीक्षा
तीर्थस्थितिः, येन तीर्थकरेण यत्तीर्थ प्रवर्तितं तत्तीर्थ यावत्तस्य तीर्थस्य प्रवृत्तिस्तावदच्छिन्नमेव भवति, उच्छिन्ने तीर्थे, आस्तां महान् ८ विश्रामे || कालः, समयमात्रमप्युच्छिन्ने तीर्थे तीर्थकरादन्यः, आस्तामन्यः, सर्वज्ञः-केवल्यपि संधातुं न समर्थः, एतच्चातीर्थसिद्धवक्तव्यताया॥१३९॥ |मागमे प्रतीतमेवेति गाथार्थः ॥१४०।। अथ तीर्थ किमुच्यते इत्याह
तित्थं चाउवण्णो संघो तत्थेव आइमो समणो । न विणा तित्थं निग्गंथेहिंति पवयणवयणाओ॥१४॥
तीर्थ चातुर्वर्णः संघः-साधुसाध्वीश्रावकश्राविकालक्षणः समुदायो, न पुनरुत्सूत्रभाष्यादिसमुदायः, तत्र चादिमः श्रमणः| साधुः, चतुर्ध्वपि वर्णेषु प्रथमः साधुरित्यर्थः, तत्र हेतुमाह-"न विणा तित्थं निग्गंथेहिन्ति प्रवचनवचनात् , निर्ग्रन्थैर्विना-साधुभिविना तीर्थ न स्याद् , यद्यपि चतुणां वर्णानामन्योऽन्यानुविद्धत्वादेकाकी वर्णः कोऽपि न स्यात् , एकस्याप्यभावे तीर्थोच्छेदापत्तेः, तथापि साधोमुख्यत्वादितिगाथार्थः ॥१४॥ अथ साधुष्वपि सूरिर्मुख्यः, स च कीदृशः कथं स्यादित्याह
तत्थवि राया सूरी सो सूरिपरंपराइ अहिसित्तो। सोहम्माओ जंबू जंबूओ पभव इच्चाइ ॥१४२॥
तत्रापि-साधुष्वपि राजा सूरिः-आचार्यः, स च सूरिः सूरिपरम्परयाऽभिषिक्तः-आचार्यपरिपाट्यागतेनाचार्येण सूरिपदे | स्थापितः स्यात् , न पुनः स्वयमेव सूरिः स्यात् , "राया न होइ सयमेव धारंतो चामराडोवे"त्ति वचनात् , दृष्टान्तमाह-'सोहम्माअति सुधर्मतो जम्बू:-श्रीसुधर्मस्वामिना निजपट्टे जम्बूखामी सूरिपदे स्थापितः, जम्बूतः प्रभवः-श्रीजम्बूस्वामिनापि श्रीप्रभवः स्वपदे स्थापित इत्यादि यावत्संप्रति श्रीविजयदानसूरिस्थापिताः श्रीहीरविजयसूरयः, एवं परिपाट्या स्थापितः सूरिस्यूरिरुच्यते, न पुनर्लुम्पकादिषु कुपाक्षिकेषु विकल्पिता अपीतिगाथार्थः ।।१.४२।। अथ तीर्थस्वरूपं बहुवक्तव्यं तत्रातिदेशमाह
SHOPOHORIGOOHOROWOROLOG
PROGROLOHOROभनाOORORE
॥१३९॥