SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पुस्तक श्रीप्रवचन परीक्षा ८ विश्रामे ॥१३॥ तीर्थाभाव: PHOTOHOWOOKIROHOODA जइ तित्थयरा अण्णो गणहरपयठावगोऽवि तिपईए। ता पुत्थेणं तित्थं ठाविजा साहुपमुहंपि ॥१३८॥ | यदि त्रिपद्या 'उपजए वा विगए वा धुए वेतिपदत्रयात्मिकया तीर्थकरादन्योऽप्यमादृशोऽपि गणधरपदस्थापकोऽपि भवेत 'ता' तर्हि पुस्तकेन गुरुनिरपेक्षकेवलपुस्तकमादाय साधुप्रमुखमपि तीर्थ स्थापयेत् , यतो यया त्रिपद्या भगवता श्रीमहावीरेण गण| धरपदस्थापना कृता सैव त्रिपदी संप्रत्यप्यस्ति, तस्मात्तथाविधदायकग्राहकपुरुषविशेषमासाद्यैव त्रिपदीवत् सिद्धान्तोऽपि फलवान् , नान्यथेतिगाथार्थः ॥१३८॥ अथोपसंहारमाह तेणं जं जहकारणमणाइसिद्धं तहेव तं णे। अन्नह इत्थीवेसो पुरिसोवि धरिज थीगभं ॥१३९॥ | येन कारणेन पुस्तकात्तीर्थ न प्रवर्तेत तेन कारणेन यत्कारणं यथा-येन प्रकारेणानादिसिद्धं वर्तते तत्कारणं तथैव-तेनैव प्रकारेण ज्ञेयं, न पुनरन्यथाऽपि, कार्यकारणभावयोरनैयत्यापत्तेः, न हि वद्धिं विना धूमोत्पत्तिः संभवति, व्यतिरेकमाह-'अन्नह'त्ति अन्यथा कार्यकारणभावयोरनैयत्ये स्त्रीवेषः-स्त्रीसंबन्धी वेषो-नेपथ्यं यस्य स तथा पुरुषोऽपि स्त्रीगर्भ धरेत , स्त्रियामिव गर्भः। स्त्रीगर्भस्तं, यद्वा स्त्रियाः गर्भः स्त्रीगर्भस्तं, स्त्रीपदमुपलक्षणपरं तेनापत्यमात्रसूचकम् , अयं भावः-स्त्रीवेषधारी पुरुषोऽपि उपलक्षणाद् पुरुषवेषधरो वेपरहितोऽपरोऽपि (स्तम्भकुम्भादिर्वा) यदि गर्भाधानहेतुः स्यात्तर्हि पुस्तकमात्रमालोक्य साधुवेषधारी आत्मनोऽपरेषां च धर्मोपदेशद्वारा धर्महेतुः साधुः स्यात् , न चैवं संभवति, तसात् कुतस्तीर्थवार्ताऽपीति गाथार्थः ॥१३॥ अथ तीर्थस्वरूपमाहतित्थं खलु तित्थयरा अच्छिन्नं जाव तस्स तित्थठिई । उच्छिन्नंमि समत्थो नन्नो संधेउ सव्वण्णू ॥१४०।। तीर्थ तीर्थकरात खलुरवधारणे तीर्थकरादेव भवतीतिगम्यं, ततःप्रवृत्तं सद् अच्छिन्नं, कियत्कालं?, यावत्तस्य-तीर्थकरस्य डाकाROROGHOG ॥१३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy