SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥१३३॥ पुस्तकतीर्थाभाव: YOGROLORONGala यदि पुस्तकात्-पुस्तकागमात्तीर्थ-साधुसाध्वीश्रावकश्राविकासमुदायलक्षणं प्रवर्तते, वर्तमानापीत्यादि विभक्तिः सप्तम्यर्थेऽत्र | ग्राह्या, प्रवर्तेत तर्हि कुसुममिव वृक्षाद् ,अपि गम्यो, वृक्षादपि किं न प्रवर्तेत ?,यथा वृक्षात्कुसुममुत्पद्यते तथा तीर्थमप्युत्पद्यतां, तत्र द्वावपि समौ-तुल्यौ, कासु ?-दीक्षावाचनापरीक्षासु, यद्वा दीक्षावचनयोः परीक्षास्तासु, अयं भावः-यथा वृक्षो दीक्षाया दायको न भवति तथा पुस्तकमपि, यथा वृक्षो वाचनाया दायको न भवति तथा पुस्तकमपि, यथा वृक्षः परीक्षाकारको न भवति तथा पुस्तकमपीति दीक्षावाचनापरीक्षासु पुस्तकवृक्षौ समावेव, ननु पुस्तकामरेभ्यो दीक्षाग्रहणविधिमवाप्य स्खयमेव दीक्षा-गृह्यते, न च | तथा वृक्षादिति कुतः साम्यमिति चेन्मैवं, पुस्तकमात्रादीक्षाग्रहणविधेः कर्तुमशक्यत्वात् , तथाहि-कः पुनरुपस्थापनाविधिरित्यत्रो|च्यते, शोभनेषु तिथिकरणनक्षत्रमुहूर्तेषु द्रव्यक्षेत्रमावेषु भगवतां प्रतिकृतीरभिवन्द्य प्रवर्द्धमानाभिः स्तुतिभिः अथ पादपतितोत्थित सूरिः सह शिष्येण महावतारोपणप्रत्ययं कायोत्सर्गमुत्साउँकैकं महाव्रतमादित आरभ्य त्रिरुच्चायन् यावनिशिभुक्तिविरतिरविकला बिरुच्चारिता, पश्चादिदं त्रिरुचरितव्यं “इच्चेआई पंच महब्बयाई राइभोअणवेरमणछठाई अत्तहिअठ्याए उवसंपजिनाणं विरहामि" | पश्चाद्वन्दनकं दत्वोत्थितोऽभिधत्तेऽवनताङ्गयष्टिः-संदिशत किं भणामीति भणति, सूरिः प्रत्याह-वन्दित्वाभिधत्स्वेत्येवमुक्तोऽमि| वन्द्योत्थितो भणति-युष्माभिर्मम महाव्रतान्यारोपितानीच्छाम्यनुशिष्टिमिति, आचार्योऽपि प्रणिगदति-निस्तारगपारगो भवाचार्य गुणैर्वर्द्धस्ख, वचनविरतिसमनन्तरं च सुरभिवासपूर्णमुष्टिं च शिरसि किरति, पश्चाद्वन्दनकं दत्वा प्रदक्षिणीकरोत्याचार्य नमस्कार-| मावर्तयन् , पुनरपि वन्दते, तथैव च करोति सकलक्रियानुष्ठानम् , एवं त्रिः प्रदक्षिणीकृत्य विरमति शिष्यः, साधवश्चास्स मुनि युगपद् वासमुष्टिं मुञ्चति सुरमिपरिमलां यतिजनसुलभकेसराणि वा, पश्चात्कारितकायोत्सर्गः मूरिरभिदधाति-गणस्तव कौटिक: KOROlokokaOROOOOOOHOR
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy