________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१३१॥
BHOID OSHO
SUSHE
परीततीत्राध्यवसायी स्यात्, तस्मादुत्सूत्री प्रतिसमयं तीर्थोच्छेदपातक लिप्त इति गाथार्थः ॥ १.३१ ॥ अथ दृष्टान्तोपसंहारमाहएवं दितेणं साहुउवासगपहाओ पन्भट्ठो । उस्सुत्तो जिणआणाविराहगो सव्वहा चैव ॥ १३२ ॥ एवं प्रागुक्तनरत्रिकेन दृष्टान्तेन दृष्टान्तीकृतेन साधूपासकयोः - साधु श्रावकयोः यः पन्थाः - मार्गस्ततः प्रभ्रष्टः - प्रकर्षेणानन्तकालभान्युदयत्वेन भ्रष्टः- च्युतः, उत्सूत्रं विद्यते यस्य स उत्सूत्रो मत्वर्थीयोऽणू, जिनाज्ञाविराधकः, सर्वथा चैव सर्वप्रकारेणैव जिनाझाविराधक इत्यर्थः इतिगाथार्थः ॥ १३२ ॥ अथ 'सव्वे पाणा भूआ' इत्यादितो लुम्पककथनोपसंहारमाह
एवं सव्वे पाणापमुहाला वगुवएसवयणेहिं । मूढाणमंधकूवो लुंपागो दंसिओ ओ ॥ १३३ ॥ एवमतन्तरोक्तप्रकारेण सव्वेपाणाप्रमुखालापको पदेशवचनैर्मूढानाम् - अज्ञानिनां जिनप्रवचनाविदित परमार्थानामन्धकूप इवान्धकूपो लुम्पाको दर्शितो ज्ञेय इतिगाथार्थः ॥ १३३॥ इति लुम्पको पदेशस्वरूपं चर्चितं ॥ अथ लुम्पकमते सिद्धान्तस्वरूपं चर्च्यतेअह लुंपगसिद्धंतो केवलसुत्तं व एगदेसेण । सुगपादुब्व असुद्धो विवरीअत्थो अ निअमइए || १.३४॥ अथेत्युपदेशान्तरं लुम्पकसिद्धान्तः केवलसूत्रं वा एवार्थे, केवलसूत्र मेव, तदपि देशेन, न पुनः समग्रं सूत्रं- सिद्धान्तः, यतस्तन्मते कस्यचित्सप्तविंशतिः सूत्राणि कस्यचिदेकोनत्रिंशत् सूत्राण्यभिमतान्येवंरूपेण ते सिद्धान्तवादिनः सोऽपि सिद्धान्तः शुकपाठरूपोशुद्धः शुको हि सम्यग्वाच्यवाचकशब्दपरिज्ञानशून्यस्तद्वदयमपि सम्यक् शब्दव्युत्पत्तिपरिज्ञानशून्यत्वात् शुकवत्पाठस्यापि शुद्धा| शुद्धवर्णोच्चारपरिज्ञानशून्य इत्यर्थः परं शुको हि परेण शिक्षितो भवति, न चायं तथा, तथापि पाठोच्चारमात्रसाम्यमधिकृत्योक्तमवसेयं, चः पुनरर्थे, विपरीतार्थः - चैत्यादिशब्दानां साध्वभिधायकत्वेनाङ्गीकारात्तन्मते यावान् सिद्धान्तः स विपरीतार्थो ज्ञेयः,
DIGHONG KONGKONGKONGHORONGHO
पुस्तकतीर्थाभावः
॥१३१॥