SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कुपाक्षिकाः स्तेनभक्ताः भीप्रवचनपरीक्षा विश्राम ॥१३०॥ GROWOROUGH GHORORONOkuotatNO. का एवं पढमे साहू बीए सट्टो अ संगई दुण्हं । तइए दुग्गइसूलाजोग्गो उस्सुत्तपहरसिओ ॥१०॥ एवं-प्रागुक्तप्रकारेण प्रथमे-प्रथमदृष्टान्ते साधुः, यतः स सर्वारम्भपरिग्रहत्यागलक्षणं विपुलं प्राभृतमादाय तीर्थकरराजानं प्रणमति, द्वितीये श्राद्धः-श्रावको, द्वितीयनरकल्प इत्यर्थः, तस्य तथाविधसामर्थ्याभावादुक्तलक्षणं प्राभृतकं नास्तीतिबोध्यं,द्वयोश्च |संगतिः-परस्परेणाविरोधितेत्यर्थः, तृतीये उत्सूत्रपथरसिकः-उत्सूत्रभाषी दुर्गतिलक्षणा या शूला तस्यां योग्यः तदारोपणानुभविते. | त्यर्थ इतिगाथार्थः ॥१३०॥ अथोत्सूत्रभाषी तृतीयनरकल्पः कथमित्याह जं सो जिणिंदकोसा तित्थाओ अवहरित्तु कइजणयं । कोसिगदेसं पाहुडकप्पं कप्पंति थुइपमुहं । १३१॥ यद्-यस्मात् स जिनेन्द्रकोशात-जिनेन्द्रस्य कोश इव कोशः तस्माद् एवंविधात्तीर्थात्-साध्वादिसमुदायलक्षणात् कतिजनतांकतिजनसमूहस्तल्लक्षणः कोशैकदेशस्तमपहृत्य-स्तैन्यीकृत्य स्तुतिप्रमुखं-स्तुतिपूजादिकमपहृतकोशैकदेशादुपादाय प्राभृतकल्पं कल्पयन्ति, ननु स्तुत्यादिकं गृहीतकोशैकदेशादिति कथं स्यादिति चेदुच्यते, यो देशोऽपहृतः सोऽपि स्तुत्यादिककतैवासीत, अत: स्तुत्यादिकमपि जिनेन्द्रकोशसंबन्ध्येव भण्यते, तस्मादुत्सूत्रभाषिकृतस्तुत्यादिकमेव तीर्थाशातनाहेतुत्वादनन्तसंसारित्वहेतुः, यत|स्तत्स्तुत्यादिकमपि तस्य तीर्थखण्डनहेतुः, यथा स्तेनो राजद्वारे प्रविशन्निर्गच्छन् वा न राजभाण्डागारादीनां हिताय भवति, किंतु | तदुच्छेदायेति, एवं कुपाक्षिकोऽपि क्रियादिषु प्रवृत्तस्तीर्थान्तर्वर्चिनां मुग्धजनानां स्खक्रियाविषयकरुच्युत्पादकत्वेन न तीर्थहिताय भवति, किंतु तदुच्छेदाय, अत एव कुपाक्षिकाध्यववसायः प्रतिसमयं तीर्थोच्छेदपातकहेतुरवाच्यक्लिष्टपरिणामोऽनन्तसंसारपरि| भ्रमणमूलं, विशेषतस्तक्रियासक्तस्य, तस्य तीर्थोच्छेदे तीव्राध्यवसायित्वात् , यो हि यन्मार्गे तीव्राध्यवसायी स ततोऽतिरिक्त तद्वि HORORONOHOTO ॥१३०॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy