________________
श्रीप्रवचन
परीक्षा ८विश्रामे ॥१२९॥
कुपाक्षिकाः स्तेनभक्ताः
जह रणी तिणि नरा भत्तिनिमित्तं पभायकालमि। पइदिणपणामकिरिआ चिट्ठति अ चारुचेष्ठावि ॥१२॥ तत्थवि एगो विउलं कोसलिअं ढोइऊण पणमिजा। जहसत्तीए तुट्ठो रायाविय तं पसीइजा ॥१२६॥ बीओ सत्तिअभावा पाहुडविगलोऽवि भत्तिसंजुत्तो। पणमिज्जा रायाणं तंपिअ राया पसीइज्जा ॥१२७||
तइओ रणो कोसा अवहरि सारसावजाइं । तत्तो किंचिवि पाहुडपुब्वं पणमेइ पावमई ॥१२८॥ तं सुणिऊणं राया सूलारोवाइवेअणं देह । लोएवि निंदणिज्जो नीआणवि नीअवयणेहिं ॥१२९।।
यथा राज्ञस्त्रयो नराः-पुरुषाः भक्तिनिमित्तं प्रभातकाले प्रतिदिनं प्रणामक्रियाश्चारुचेष्टा अपि तिष्ठन्तीतिगाथार्थः ॥१२५ ॥ तत्रापि-तेष्वप्येको नरो विपुलं कौशलिक-प्राभृतं ढोकयित्वा-राज्ञः पुरो मुक्त्वा प्राणमत , कथं ?, यथाशक्ति-खशक्यनतिक्रमेण, राजाऽपि तुष्टः सन् तं तथाविधविनयाद्यन्वितं प्रसीदेव , प्रसन्नश्च राजा नरजन्मोदितं यथेप्सितं सुखं ददातीतिगाथार्थः ॥१२६।। द्वितीयो नरः शक्त्यभावात्प्राभृतविकलोऽपि भक्तिसंयुक्तो राजानं प्राणमत् , तमपि राजा यथोचितोपचारेण प्रसन्नो भवेदितिगाथार्थः ॥१२७॥ तृतीयो नरो राज्ञः कोशात् सारखापतेयादि-सारमणिमुक्तादिधनमपहृत्य-स्तैन्यीकृत्य ततः-तसादपहृतधनात् किंचिद| पहृतकोटिसकाशाद्र्पकमात्रमिव प्राभूतपूर्व यथा स्यात्तथा पापमतिः-स्तैन्यकर्मा प्रणमति राजानमितिगाथार्थः॥१२८॥ राजा तत्|स्तैन्यादिव्यतिकरस्वरूपं ज्ञात्वा'शूलारोपणादिवेदना'शूलायां-शूलिकायां यदारोपणं तदादिवेदनाम्-अनेकप्रकारां पीडां ददाति,अर्थातस्य स्तेनस्य, लोकेऽपि च नीचानामपि-पामरादिजनानामपि नीचवचनैः-अहो पापात्मा हृदयशून्यो राज्ञ एव भाण्डागारं स्फाटयित्वा तमेव राजानं तद्गतं वस्तु प्राभृतमादाय प्रणमतीत्यादिरूपैनिन्दनीयः स्यादितिगाथार्थः।।१२९॥अथ दार्शन्तिकयोजनमाह
DAOHOORowsko
GHOIGHOIHOROSROROSCOHORCHI
oTOONG
| ॥१२९॥