________________
कुपाक्षिको
श्रीप्रवचन-
परीक्षा ८ विश्रामे ॥१२८॥
ऽनन्तसंसार:
OHOROROSOHOROr
गम्यं, तस्य तीर्थस्य प्रतिकूला या प्रवृत्तिः सा महापापमत एव तालपुरविषकल्पममिनिवेशमिथ्यात्वं कुपाक्षिकस्येत्यागमे प्रतीतमिति सर्वथा जिनाज्ञाबायः कुतः श्रावकवत् स्याद् ?, अत एव साधुश्रावकसंविग्नपाक्षिकाणां मार्गास्त्रयोऽपि मोक्षमार्गत्वेन भणिताः,यदाallगमः-"सावजजोगपरिवजणाइ सव्वुत्तमो जईधम्मो। बीओ सावगधम्मो तइओ संविग्गपक्खवहो॥१॥ (५१९ उप०) इत्येते
भ्यस्त्रिभ्यः शेषाः संसारमार्गा एव, यदागमः-"सेसा मिच्छदिट्टी गिहिलिंगकुलिंगदव्बलिंगेहिं । जह तिन्नि उ मुक्खपहा संसारपहा तहा तिन्नि।।।"ति(५१० उप०)अत्र कुपाक्षिकाणां मध्ये दिगम्बरः कुलिङ्गे लुम्पकस्त्व लिङ्गे शेषास्तु प्रायो द्रव्यलिङ्ग एव बोध्याः, किंच-श्रावकस्तावत्तीर्थे साध्वादीनां हितेच्छुर्यथाशक्ति तद्भक्त्युद्यतः प्रतिसमयमनन्ताः पापप्रकृतीः परिशाटयति पुण्यप्रकृतीश्च वनाति, कुपाक्षिकास्तूत्सूत्रभाषणेन प्रतिसमयं तीर्थोच्छेदमिच्छन्तो दुर्लभबोधिभाजः प्रतिसमयमेवानन्तोत्सर्पिण्यवसर्पिणीकालपरिभ्रमणबीजभूतं कर्मार्जन्ति, तत्त्वेव-पूर्वकोयायुषोऽपि समयास्तावदसंख्येया एव, 'उस्सुत्तभासगाणं बोहिनासो अणंतसंसारो'त्ति वचनात् नियमादनन्तकाल एव संसारे परिभ्रमणं, तावांश्च कालः प्रतिसमयं विभज्यमानोऽनन्तानन्तोत्सपिण्यवसर्पिणीप्रमाणो भवति, कदाचिदनन्ता अनन्तगुणिता अपि संभवन्ति,यतः आशातनाबहुलस्यान्तरकालोऽपार्द्धपुद्गलपरावर्तोऽपि भणितः,यदागमः-"कालमणंतं च सुए अद्धापरिअट्टओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ॥१॥"त्ति, श्रीपा०नि० (८५३) आशातनाबहुलश्चोत्सूत्रभाष्येव, अपार्द्धपुद्गलपरावर्तकालस्त्वनन्ता अप्युत्सर्पिण्यवसर्पिण्योऽनन्तानन्तगुणिता एव स्युः, ताश्च विभज्यमाना प्रतिसमयमनन्तानन्तगुणिता एवायान्तीति गाथार्थः ॥१२४॥ अथ साधुश्रावककुपाक्षिकाणां सम्यकस्वरूपपरिज्ञानाय गाथापञ्चकेन दृष्टान्तं दर्शयितुं प्रथमगाथामाह
ROHIGHO TaSDHEROENOGora
॥१२८॥