SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रासादादिसिद्धिः श्रीप्रवचनपरीक्षा विश्रामे ॥११॥ HOOLGHOROINOROROUGHORROR प्रासादः कथमिति भणित्वाऽपि सिद्धान्तस्य साक्षिकं सिद्धान्तैकदेशं प्रकरणादिकं भणन्नपि न लजसे, ननु विश्वसनीयाचाराङ्गादि सिद्धान्ताद्विश्वासजनकस्तत्साक्षिकसिद्धान्तस्तु प्रकरणादिलक्षणो भिन्न एवेति चेचिरं जीव, अत्रापि तीर्थकरकालीना ये जैनप्रासादास्ते श्रावकैरेव कारिताः, यतः संप्रतिराजेनापि श्रावकेणैव सता जैनप्रासादाः कारिता इत्येवंरूपेण प्राचीनानां जैनप्रासादादीनां श्रावककारितत्वेऽधुनातनप्रासादा मिन्ना एव साक्षिणः, ननु गणधरकृतत्वेन तीर्थकरकालीनान्येव सम्प्रत्या चारागादीनि सन्ति जैनप्रासादास्तु तथा नोपलभ्यन्ते तत्कथमाधुनिकप्रासादैः प्राचीनप्रासादादीनां श्रावककर्तृत्वेन निर्गय इति चेदुच्यते, साम्प्रतीनानामाचा| गङ्गादीनां कर्त्तारो गणधरा एवेति कुतो ज्ञातं ?, प्रकरणाद्यक्षरैरितिवेदत्रापि भरतादिकारितानां प्रासादप्रतिमादीनामष्टापदादिषु | सद्भावसूचकानि प्रकरणानि बहूनि सन्ति, किंच-अध्यक्षसिद्धानामाचाराङ्गादीनां गणधरा एव कर्त्तार इति सम्यनिर्णायकानि लुम्पकामिमतसिद्धान्ताक्षराणि क्वापि नोपलभ्यन्ते, प्रासादप्रतिमादीनां त्वाचाराङ्गादीनीत्यग्रे दर्शयिष्यते इति विशेषः,पारमार्थिकगतिस्त्वेवंसाक्षिकत्वं तावन्न कालनियतं नवा पुरुषनियतं नवा किंचिद्वस्तुनियतं, किंतु यथाकथंचित्किंचित् कस्यचित्तथाविधसंशये सति | सिद्धान्तस्यापि साक्षिणः प्रतिमादयः प्रतिमादीनां च साक्षी सिद्धान्त इत्यन्योऽन्य सापेक्षतैव, तथाहि-आधुनिकश्रावकादिवर्गः पुष्पादिमिर्जिनप्रतिमा पूजयित्वा शक्रस्तवादिकं पठति तच्छ्रावककृत्यं भवति नवेति संशये सति द्रौपदीव्यतिकरनिबद्धं षष्ठाङ्गमेव | साक्षिकं, तया तथैव कृतत्वाद् , एवं तथाविधविधिं कुर्वती द्रौपदी श्राविका उत नेति संशये सति संप्रत्यपि श्राविकास्तथैव कुर्वन्त्य उपलभ्यन्तेऽतो निर्णीयते साऽपि द्रौपदी श्राविकैव, मिथ्यात्ववासिन्याः कस्या अप्येवमनुपलम्भाद् ,तथा आधुनिकश्रावकादिकारितं जैनप्रासादप्रतिमाप्रतिष्ठादिकं शोभनमशोभनं वेत्यादि संशये सति श्रीभरतचक्रवर्तिकारिताष्टापदप्रासादादिव्यतिकरज्ञापको नियुक्त्या I.OLOROUGHLIGHONOROox
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy